________________
प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
२६३ चतुर्धन्वशतोत्तुङ्गः स्वर्णवर्णो जगद्गुरुः । बभासे कौतुकान्मेरुरिव पुंस्त्वमुपागतः ॥ २२७ ।। छत्रवृत्तोनतोष्णीषः स्निग्ध-श्यामलकुन्तलः । अष्टमीन्दुललाटश्रीः कर्णविश्रान्तलोचनः ॥ २२८ ॥ स्कन्धावलम्बिश्रवणो वृषस्कन्धो महाभुजः । विशालभुजमध्यश्च सिंहोदरकृशोदरः ॥ २२९ ॥ करीन्द्रकरकल्पोरुरेणीजङ्घोऽल्पगुल्फकैः । कूर्मपृष्ठोन्नत-समतलांहिः सरलाङ्गुलिः ॥ २३०॥ असम्पृक्तोद्गतश्याम-मृदुल-स्निग्धरोमकः । पद्मामोदिमुखश्वासः सदा मालिन्यवर्जितः ॥ २३१ ॥ एवं निर्सर्गसर्वाङ्गसुभगोऽपि जगत्पतिः । पार्वणः शरदेवेन्दुयौवनेनाधिकं बभौ ॥ २३२ ॥ पितृभ्यामुत्सवातृप्त्याऽपरेधुः प्रार्थितः प्रभुः । परिणेतुं नृपकन्याः सुरकन्यासहोदराः ॥ २३३ ॥ जानन् भोगफलं कर्म पित्रोराज्ञां च पालयन् । कन्यानामुपैयमनं सोऽनुमेने महामनाः ॥ २३४ ॥ - राज्ञा जितारिणा साक्षाच्छक्रेण च समेर्युषा । हाहा-हूहूप्रभृतिषु गायत्सु मधुरस्वरम् ॥ २३५ ॥ गन्धर्वेषु मृदङ्गादि गम्भीरं वादयत्सु च । रम्भा-तिलोत्तमाद्यासु नृत्यन्तीष्वप्सरःसु च ॥ २३६ ॥ 10 धवलानुगुणन्ती कुलनारीषु चोचकैः । कारितः सम्भवस्वामी कन्योद्वाहमहोत्सवम् ॥ २३७ ॥
॥ त्रिमिर्विशेषकम् ॥ नन्दनोद्यानकल्पासु कदाप्युद्यानैवीथिषु । रत्नाद्रिशृङ्गतुल्येषु क्रीडाद्रिषु कदापि च ॥ २३८ ॥ सुधाकुण्डसदृक्षासु कदाचित् केलिवापिषु । कदाचिचित्रशालासु द्युविमानसनाभिषु ॥ २३९ ॥ वैदग्ध्यरमणीयाभी रमणीमिः सहस्रशः । रेमे श्रीसम्भवखामी करिणीभिरिव द्विपः ॥ २४०॥ 15
॥ त्रिभिर्विशेषकम् ॥ भुञ्जानो विविधान् भोगान् कौमारे परमेश्वरः । गमयामास पूर्वाणां लक्षाणि दश पश्च च ॥ २४१॥
राजाऽथ भवनिर्विण्णः सम्भवस्वामिनं तदा । उपरुध्य न्यधाद् राज्येऽङ्गुलीये वररत्नवत् ॥२४२॥ सद्गुरोः पादपद्मान्ते जितारिनृपतिः स्वयम् । उपादाय परिव्रज्यां निजमर्थमसाधयत् ॥ २४३ ॥ तातोपरोधादादाय राज्यं प्राज्यपराक्रमः । ररक्ष सम्भवखामी पृथिवीं पुष्पदामवत् ॥ २४४ ॥ 20 निरीतयो नि तङ्काः पुरुषायुषजीविताः । सम्भववामिनो राज्ये प्रभावादभवन् प्रजाः ॥ २४५ ॥ न कस्याप्युपरि स्वामी ध्रुवमप्यध्यरोपयत् । चापारोपणवा या अवकाशोऽपि कीदृशः ॥ २४६ ॥ भोग्यं कर्म क्षिपन् राज्ये सर्वाङ्गचतुष्टयम् । चतुश्चत्वारिंशत्पूर्वलक्षी स्वाम्यत्यवाहयत् ॥ २४७ ॥
ज्ञानत्रयपरीतात्मा स्वयम्बुद्धो जगत्प्रभुः। तदा च चिन्तयामास संसारस्थितिमीहशीम् ॥ २४८ ॥ संसारे विषयावादसुखं सविषभोज्यवत् । आपातमात्रमधुरं परिणामे त्वनर्थदम् ॥ २४९ ॥ 25 अस्मिन्नसारे संसारे कथञ्चिद्धि शरीरिभिः । अवाप्यते मानुषत्वमूरे स्वादुवारिवत् ॥ २५० ॥ मानुषत्वमवाप्याऽपि मूर्विषयसेवया । मुधा निर्गम्यते पादशौचेनेव सुधारसः ॥ २५१॥ इति चिन्तयतो भर्तुरेयुलॊकान्तिकामराः । नत्वा व्यज्ञपयंश्चैव स्वामिस्तीथं प्रवर्त्तय ॥ २५२ ॥ गतेषु तेषु देवेषु दीक्षादानोत्सवोत्सुकः । सांवत्सरिकमारेभे दानं दातुं जगत्पतिः ॥ २५३ ॥ देवाश्च जृम्भकाः शक्रादिष्टवैश्रवणेरिताः । क्षीणस्वामीनि निर्नष्टसेतून्यद्रिगतानि च ॥ २५४॥ 30
। उनतमस्तकशिखः। २ दीर्घलोचन इत्यर्थः। ३ अल्पौ गुल्फी घुटिके यस्य । ४ स्वभावसर्वाङ्ग-1 ५ पूर्णिमाचन्द्रो यथा शरस्तुना तथा । * °तृभ्यां परया प्रीत्याऽपरे° संवृ०॥ ६ समाना इत्यर्थः । ७ विवाहम् । ८ समागतेन । ५ भाषायां 'घोळ । १० गायन्तीषु । ११ उद्यानराजिषु । १२ देवविमानसदृशासु । १३ चातुर्येण रमणीया-१४ पदपंचाशसहनाधिक सप्ततिलक्षकोटिवर्षात्मकः कालविशेषः पूर्वम् । १५ मुद्रिकायाम् । १६ अङ्गीकृत्य । १७ पितुराग्रहात्। १८ अतिप्रोडपराक्रमवान् । १९ अतिवृष्टि-अनावृष्टिप्रमुख-ईतिरहिताः । २० रोगरहिताः । २॥ चतुरशीतिलक्षवर्षपरिमितं पूर्वाङ्गम्। २२ सुक्तास्मा । २१ मारम्भ एवं मधुरम् । २. क्षारभूमी। २५ वार्षिकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org