________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ तृतीयं पर्व
अकरोदित्थमन्येन्द्रकृतस्नात्र विलक्षणम् । स्नात्रं सौधर्मकल्पेन्द्रो जिनेन्द्रस्यातिभक्तितः ॥ १९६ ॥ उक्ष्णस्तानुपसंहृत्य चर्चा-ऽर्चादि जगद्गुरोः । चक्रे शक्रः सप्रमोदं प्रणम्यैवमथाऽस्तवीत् ॥ १९७ ॥ नमो भगवते तुभ्यं विश्वनाथाय तायिने । तृतीयतीर्थनाथाय सनाथाय महर्द्धिभिः ॥ १९८ ॥ ज्ञानैस्त्रिभिश्चतुर्भिश्रातिशयैः सहजन्मभिः । जगद्विलक्षणोऽस्यष्टसहस्रस्फुटलक्षणः ॥ १९९ ॥ 5 सदैव हि प्रमत्तानां प्रमादच्छेदकारणम् । इदं त्वजन्मकल्याणं कल्याणायाऽद्य मादृशाम् ॥ २०० ॥ सकलाऽपि श्लाघनीया यामिनीयं जगत्पते ! । अकलङ्कतनुर्यस्यामुदगास्त्वं सुधाकरः ॥ २०१ ॥ अमर्त्यलोकवन्मर्त्यलोकोऽप्यस्त्वधुना प्रभो ! । देवैस्त्वद्वन्दनाहेतोरेहिरे या हिरापरैः ॥ २०२ ॥ देव ! त्वद्दर्शनसुधास्वादसन्तुष्टचेतसाम् । पर्याप्तं जीर्णसुधयाऽतः परेण सुँधान्धसाम् ॥ २०३ ॥ भगवन्! भरतक्षेत्रसरोवरसरोरुह ! | भूयान्मधुव्रतस्येव त्वयि मे परमो लयः ॥ २०४ ॥ मानवा अपि ते धन्या ये त्वां पश्यन्ति नित्यशः । त्वद्दर्शनोत्सवोऽधीश ! स्वाराज्य । दतिरिच्यते । २०५ ।
स्तुत्वैवं पञ्चधा भूत्वेशानात् खामिनमाददे । मूल्यैकया परीभिश्व प्राग्वत् कर्माणि सोऽकरोत् ॥ २०६॥ सेनादेव्याः क्षणात् पार्श्वे वस्त्रालङ्कारभूषितम् । मुमोच प्रभुमुलोऽवभाच्छ्रीदामगण्डकम् ॥ २०७ ॥ कुण्डले च दुकूले च प्रभोरुच्छीर्षकेऽमुचत् । तामपखापनी महत्प्रतिबिम्बं च सोऽहरत् ॥ २०८ ॥ trissfभयोगिकान् देवान् दिवस्पतिरघोषयत् । कल्पवासिषु देवेषु भवनाधिपतिष्वपि ॥ २०९ ॥ 15 व्यन्तरेषु ज्योतिष्केषु प्रभोर्देव्याश्च योऽशुभम् । चिन्तयिष्यति तन्मूर्धा सप्तधैव स्फुटिष्यति ॥२१०॥ युग्मम् सोऽथ सङ्क्रमयामासाङ्गुष्ठे भर्तुः सुधारसम् | अर्हन्तोऽस्तन्यपा यस्मात् क्षुधि स्वाङ्गुष्ठायिनः ॥ २११ ॥ सर्वाणि धात्रीकर्माणि सदा कारयितुं विभोः । समादिदेशाऽप्सरसः पञ्च धात्रीः सुरेश्वरः ।। २१२ ।। एवमासूत्र्य सूत्रामा नत्वाऽर्हन्तं ततो ययौ । मेरुतः पुनरन्येन्द्राः द्वीपं नन्दीश्वराभिधम् ॥ २१३ ॥ शाश्वतार्हत्प्रतिमानां तत्र चाऽष्टाह्निकोत्सवम् । कृत्वा निजनिजस्थानं ययुः सर्वे सुरासुराः ॥ २१४ ॥ प्रातर्जितारिणा राज्ञा पुत्रं भूयमुपेयुषः । अर्हतो जगदर्हस्य चक्रे जन्मोत्सवो महान् ॥ २१५ ॥ गृहे गृहे पथि पथि विपणौ विपणावपि । पुर्यां तत्रोत्सवो जज्ञे सर्वस्यां राजवेश्मवत् ॥ २१६ ॥ यद्गर्भस्थेऽत्र सम्भूतं धान्यं 'शं चाऽभवत्ततः । सम्भवः शम्भवश्चेति पिता नाम विभोर्व्यधात् ॥ २१७॥ मुहुर्मुहुरुदैक्षिष्टं बालरूपं जगत्पतिम् । सुधामग्नमिवाऽऽत्मानं मन्यमानो महीपतिः ।। २१८ ॥ भूपतिर्धारयामासोत्सङ्गे हृदि शिरस्यपि । प्रकृष्टमिव माणिक्यं प्रभुं तत्स्पर्शलालसः ॥ २१९ ॥ धात्र्यः शक्रकृताः पञ्च ताः पञ्चितभक्तयः । कदाऽपि देहच्छायावत् पार्श्व न मुमुचुः प्रभोः ॥ २२०॥ स धात्रीं खेदयामासाङ्कादुत्तीर्य परिभ्रमन् । अपेतसाध्वसः सिंहीमिव सिंहकिशोरकः ॥ २२९ ॥ रत्नाईमभूमिसङ्क्रान्ते चन्द्रे स ज्ञानवानपि । करं चिक्षेप लोकस्य दर्शयन् बालचापलम् || २२२ ॥ आगतैः सवयोर्भूय मर्त्यरूपधरैः सुरैः । सहाक्रीडत् प्रभुः कोऽन्यस्तत्क्रीडायामपि क्षमः १ ।। २२३ ॥ क्रीडा धावतो भर्तुर्वलद्रीवा दिवौकसः । प्रतिकारी इवेभस्य धावन्ति म पुरः पुरः ॥ २२४ ॥ 30 लीलया पातितेष्वेषु रक्ष रक्षेति वादिषु । तदापि विदधे स्वामी परिणामोचितां कृपाम् ॥ २२५ ॥
एवं विचित्रक्रीडाभिश्चित्रैः क्रीडनकैश्च सः । शैशवं व्यतिचक्राम प्रदोषमिव चन्द्रमाः ॥ २२६ ॥
10
20
25
२६२
१ चर्चा विलेपनम्, अर्चा पूजनम् । २ रक्षणकर्त्री । ३ युक्ताय । ४ स्वर्गलोकवत् । ५ 'रे आगच्छ रे गच्छ' इत्यादिभाषणतत्परैः । ६ देवानाम् । * "धुकरस्ये' संवृ० ॥ ७ भ्रमरस्येव । ८ स्वर्गसाम्राज्यात् । ९ अन्याभिः मूर्तिभिः । १० विताने । ११ पुष्पदामगुच्छकम् । १२ उपधाने, भाषायाम् 'ओशीकुं' । १३ इन्द्रः | १४ तन्मस्तकम् । १५ न मातुः स्तन्यपायिनः । + णि कर्माणि सदा तदा कार० सं० ॥ १६ इन्द्रः । १७ पुत्र रूपतां प्राप्तस्य । १८ सुखम् । १९ दृष्टवान् । २० विखारितभक्तयः । २१ अपगतभयः । २२ खोपलनिबद्ध भूमिप्रतिबिम्बिते । २३ मित्राणि भूत्वा । २४ भटाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org