________________
प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
२६१ स प्रदक्षिणयामास स्वामिवेश्म विमानगः । मुक्त्वा विमानं चैशान्यां ततो हरिरवातरत् ॥ १६५ ॥ अथ तत् स्वामिनो वेश्म प्रविवेश पुरन्दरः । तमालोकनमात्रेऽपि प्रणनाम च भक्तितः ॥ १६६ ॥ स त्रिः प्रदक्षिणीचक्रे भगवन्तं समातरम् । पश्चाङ्गस्पृष्टभूपीठो भूयोऽपि प्रणनाम च ॥ १६७ ॥ अपखापनिकां दत्त्वा देव्याः पार्श्वे निधाय च । प्रतिच्छन्दं विभोः शक्रः पञ्चमूर्तिरभूत् स्वयम् ॥१६८॥ तत्र चेको दधौ नाथं शकछत्रमथाऽपरः । चामरे द्वावथैकोऽगाद् वज्रमुल्लालयन् पुरः॥१६९॥ 5 सुरैर्जयजयारावकारिभिः परिवारितः । गृहीत्वा स्वामिनं शक्रः क्षणान्मेरुशिरो ययौ ॥ १७० ॥
अतिपाण्डुकम्बलायां शिलायां तत्र वासवः । सिंहासने निषसाद कृत्वोत्सङ्गे जगद्गुरुम् ॥ १७१ ॥ __ तदैवाऽऽसनकम्पेनाऽवधिज्ञानमनाहतम् । प्रयुज्य तत्क्षणादेवाऽच्युतेन्द्रः प्राणतोऽपि च ॥१७२॥ सहस्रारो महाशुक्रो लान्तको ब्रह्मवासवः। माहेन्द्रःसनत्कुमार ईशानश्चमरो बलिः॥१७॥ धरणो भूतानन्दश्च हरिहरिसहस्तथा । वेणुदेवो वेणुदारी चाऽग्निशिखोऽग्निमाणवः ॥ १७४ ॥10 वेलम्बः प्रभञ्जनश्च सुघोषाभिध एव च । महाघोषो जलैंकान्ताभिधानोऽथ जलप्रभः॥१७५॥ अथ पूर्णोऽवैशिष्टश्वामितोऽथामितवाहनः। तथा काल-महाकालौ सुरूप-प्रतिरूपकौ ॥१७६॥ पूर्णभद्रस्तथा माणिभद्रो भीमाभिधोऽपि च । महाभीमः किन्नरश्च तथा किम्पुरुषाभिधः ॥१७७॥ सत्पुरुषाभिधानश्च महापुरुष एव च । अतिकाय-महाकायावपि गीतरतिस्तथा ॥ १७८ ॥ तथा गीतयशोनामा सन्निहितः समानकः।तथा धातृ-विधाताराषिश्व ऋषिपालकः॥१७९॥15 ईश्वरो महेश्वरश्च सुवैत्सक-विशालको । हास-हासरती श्वेतो महाश्वेतस्तथैव च ॥ १८० ॥ पर्वक-पवर्कपती सूर्याचन्द्रमसावपि । इन्द्रास्त्रिषष्टिरेतेऽपि सर्वा सपरिच्छदाः ॥१८१॥ जिनजन्माभिषेकाय मेरुपर्वतमूर्धनि । त्वरमाणाः संहाऽऽजग्मुः प्रतिवेश्मस्थिता इव ॥ १८२ ॥
॥एकादशभिः कुलकम् ॥ अच्युतेन्द्राज्ञया कुम्भांत्रिदशा आभियोगिकाः । हैमान रूप्यमयान् रामान हेमरूप्यमयानपि ॥१८३॥ 20 हेमरत्नमयांश्चैव रूप्यरत्नमयानपि । हेमरूप्यरत्नान् भौमान् सहस्रं साष्टकं पृथक् ॥ १८४ ॥ भडारान दर्पणांश्चापि सप्रतिष्ठान करण्डकान । स्थालानि पात्रीचड़ेरीविचक्रस्तावतीरपि॥१८५॥ क्षीरोदादिसमुद्रेभ्योऽन्यतीर्थेभ्योऽपि वारि ते । मत्स्नां पद्मादि चाऽऽनिन्युः शतमन्युमनोमुदे ॥१८॥ हिमाद्रेरोषधी द्रशालादेस्तुवरानपि । गन्धद्रव्यमन्यदपि तत्राऽऽनिन्युर्दिवौकसः ॥ १८७ ॥ गन्धद्रव्याणि सर्वाणि क्षिप्रं प्रक्षिप्य तानि ते । ततः सुरभयामासुस्तीर्थवारीणि भक्तितः ॥ १८८॥ 25 अच्युतः पारिजातादिकुसुमाञ्जलिपूर्वकम् । स्वामिनं स्वपयामास तैः कुम्भैरमरार्पितैः॥ १८९॥ चारुवाद्य-गीत-नृत्तप्रवृत्तमुदितामरम् । अजनि खामिनः स्नात्रमच्युतेन्द्रविनिर्मितम् ॥ १९० ॥ दिव्याङ्गराग-पूजादि भक्त्या जिनपतेय॑धात् । स औरणाऽच्युतपतिर्ववन्दे च यथाविधि ॥ १९१॥ इन्द्रा द्वापष्टिरन्येऽपि शक्रवर्ज तथा व्यधुः । जगत्पवित्रीकरणं स्नात्रं त्रिभुवनेशितुः ॥१९२ ॥ भृत्वाऽथ पश्चधेशान एकोऽङ्के नाथमग्रहीत् । अन्यश्छत्रं चामरे द्वावन्योऽग्रेऽस्थाच्च शक्रवत् ॥१९३॥ 30 शक्रः प्रभोश्चतसृषु दिसूक्ष्णः स्फाटिकानथ । उत्तुङ्गशृङ्गांधतुरो भक्त्येकचतुरोऽकरोत् ॥ १९४ ॥ तेषां ऋङ्गेभ्य उत्पेतुर्वारिधारा मनोरमाः । मूले भिन्नाः प्रान्ते मिश्राः पेतुश्च स्वामिमूर्धनि ॥१९५॥
जानुयुगं फरयुगं उत्तमाझं चेति पञ्चाङ्गम् । २ प्रतिबिम्बम् । ३ अप्रतिहतम् । * समाऽज° सह.॥ ४ भाषायां 'पडोश । सह. पुस्तकं विनाऽन्यत्र नास्ति ॥ ५ मृण्मयान् । ६ लघुपात्राणि । ७ पुष्पपात्राणि, भाषायाम् 'चङ्गेरी' ।
मृत्तिकाम् । ना-प° मो०॥९इन्द्रः। १० देवाः ११ अच्युतेन्द्रः। °वर्जास्तथा संवृ० ॥ १२ बलिवान् । १३ भक्त्यामेक एवं चतुरः।
त्रिषष्टि.३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org