________________
२६०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत
[ तृतीयं पर्व जरायु-रक्तप्रभृतिवर्जितं वाजिलाञ्छनम् । प्राचीवाऽकं स्वर्णवर्ण सुखं सा सुषुवे सुतम् ॥ १३३ ॥
ध्वान्तध्वंसकृदुझ्योतस्त्रैलोक्येऽपि तदा क्षणम् । क्षणं च सौख्यं सञ्जज्ञे नारकप्राणिनामपि ॥ १३४॥ ग्रहाः स्त्रोचं ययुः स्थानं प्रसेदुः सकला दिशः । ववौ वायुः सुखं लोकश्चिक्रीड निखिलस्तदा ॥ १३५ ॥ गन्धाम्बुवृष्टिरभवद् दिवि दध्वान दुन्दुभिः । रजोऽपनिन्ये पवनो मही चोच्छवासमासदत् ॥ १३६ ॥ अथाऽधोलोकतो भोगङ्कराद्या दिक्कुमारिकाः । अष्टैयुः स्वामिसदनमर्हजन्मविदोऽवधेः ॥ १३७ ॥ तास्त्रिः प्रदक्षिणीकृत्य जिनं तज्जननीमथ । नत्वा खं ज्ञापयामासुर्मा भैषीर्वार्दपूर्वकम् ॥ १३८ ॥ दिश्यैशान्यां स्थिताः कृत्वा समुद्धातं च वैक्रियम् । जहुः संवर्तवातेनाऽऽयोजनं कण्टकादि च ॥१३९॥ भगवन्तं ततो नत्वा तदासन्ने निषद्य च । गायन्त्यस्तदणांस्तस्थर्गोत्रस्त्रिय इवोच्चकैः॥ १४०॥
अथोड़लोकतो मेघडराद्या दिवमारिकाः । अष्ट्रयस्तद्वदानेमः स्वामिनं स्वामिमातरम ॥१४१॥ 10 विकृत्याऽभ्राणि तद्वेश्मपार्श्वतो योजनावधि । रजांसि शमयामासुस्ता गन्धोदकवृष्टिभिः ॥ १४२ ॥
जानुनी पञ्चवर्णपुष्पवृष्टिं विधाय ताः । नत्वा जिनं जिनगुणान् गायन्त्योऽस्थुर्यथोचितम् ॥१४३॥ दिक्कुमार्यः प्राग्रुचकादष्ट नन्दोत्तरादयः । एत्य नत्वा तथैवाऽस्थुर्गायन्त्यो धृतदर्पणाः॥ १४४ ॥ दिक्कमार्योऽपानचकात समहारादयोऽष्ट च । एत्य नत्वा दक्षिणेऽस्थः सभृङ्गाराग्रपाणयः॥१४५॥
प्रत्यग्रुचकतोऽष्टैयुर्दिकुमार्य इलादयः । नत्वाऽस्थुर्व्यजंनभृतो गायन्त्यः पश्चिमेन तु ॥ १४६ ॥ 15 अष्टोदग्रुचकादेयुर्देव्यश्चाऽलम्बुसादयः । नत्वा चोत्तरतस्तस्थुर्गायन्त्यो धृतचामराः॥ १४७ ॥
एयुश्चतस्रश्चित्राद्या विदिग्रुचकतोऽप्यथ । नत्वा विदिक्षु तस्थुश्च गायन्त्यो दीपपाणयः॥ १४८ ॥ एयुश्चतस्रो रूपाद्या देव्यो रुचकमध्यतः । चतुरङ्गलवर्ज ता नालं निचकृतुः प्रभोः ॥ १४९ ॥ ताः कृत्वा विदर भूमौ न्यधुर्नालं निधानवत् । वढ रनैश्च सम्पूर्य दुर्वया पीठिका व्यधुः ॥१५० ॥
प्रत्यग्वज प्रतिदिशं जिनजन्मगृहस्य ताः। विचक्रुः कदलिगृहं चतुःशालसमन्वितम् ॥ १५१॥ 20 पाणिभ्यां जिनमादाय जिनाम्बां दत्तबाहवः । अंपारम्भाचतुःशाले नीत्वा सिंहासने व्यधुः ॥ १५२ ॥
उभावभ्यज्य तैलेन लक्षपाकेण तास्ततः । सुगन्धिनोद्वर्तनेनोद्वर्तयामासुराशुं च ॥ १५३ ॥ नीत्वोभौ प्राक्चतुःशाले न्यस्य सिंहासने च ताः । गन्धोदकैरस्नपयन् देवदूष्येण चाऽमृजन् ॥१५४॥ गोशीर्षण व्यलिम्पंश्च देवदृष्यांशुकान्यथ । भूषणानि च दिव्यानि ता द्वाभ्यां पर्यधापयन् ॥ १५५ ॥
उदगम्भाचतुःशाले जिनं तजननीं च ताः। नीत्वोपवेशयामाम् रत्नसिंहासनोपरि ॥१५६ ॥ ___ अर्थाभियोग्यैरानाय्य भूरि गोशीर्षचन्दनम् । समिन्धीकृत्य जुहुवुर्वतावरणिनिर्मिते ॥१५७ ॥
स्वामिनः स्वामिमातुश्च रक्षापोटॅलिकामथ । तद्वहिभसना कृत्वा बबन्धुस्ता यथाविधि ॥ १५८॥ पर्वतायुर्भवेत्युच्चैरुचारितगिरोऽथ ताः । कर्णाभ्यणे भगवतो ग्रांवगोलावताडयन् ॥ १५९ ॥ शय्याजुषं सूतिगृहेऽहेन्तं तन्मातरं च ताः । कृत्वाऽवतस्थिरे तारं गायन्त्यो मङ्गलान्यथ ॥ १६०॥
__ खामिपादाम्बुजाभ्यणे यियासूनीव सर्वतः । तदा च पुरुहूतानामासनानि चकम्पिरे ॥ १६१ ॥ 30 जिनजन्मावधेत्विोत्थाय शक्रोऽपपादुकः । दत्त्वा पदानि सप्ताऽष्टान्यवन्दत जिनेश्वरम् ॥ १६२ ॥
घण्टानिर्घोष-सेनानीघोषणामिलितैः सुरैः । परिवत्रे सुरेन्द्रोऽथ जिनजन्मोत्सवोत्सुकैः ॥ १६३ ॥ आरुह्य पालकं शक्रः सामरः सपरिच्छेदः । मध्येनन्दीश्वरं गत्वा स्वामिवेश्माऽऽययौ ततः॥१६४ ॥
*°लाञ्छितम् संबृ०॥ अन्धकारनाशकः प्रकाशः। २ कथनपूर्वकम् । ३ योजनपर्यन्तम् । ४ जानुप्रमाणाम् । ५ ताल. वृन्तधराः। ६ चिच्छिदुः। ७ गतम् । ८ स्थापयामासुः । ९ दक्षिणकदलिगृहे । १० शीघ्रम् । ११ उत्तरदिस्थिते कदलीगृहे । १२ सेवकदेवैः। १३ ज्वालयित्वा । १४ भाषायां 'रक्षापोटली' । १५ पाषाणगोलको। १६ उधःस्वरम् । १७ इन्द्राणाम् । १८ पादुकारहितः। १९ एतमाम विमानम् । २० देवैः सहितः । २१ सपरिवारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org