________________
15
प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
२५९ विहितानशनो मृत्वा कल्पं स प्रापदानतम् । निर्वाणफलँदायिन्या दीक्षायाः स्तोकमीदृशम् ॥ १०२॥
इतच जम्बूद्वीपेऽपाग्भरतार्धस्य भूषणम् । श्रावस्तीत्यस्ति विस्तीर्णा नगरी श्रीगरीयसी ॥१०३॥ बभूव तस्यामिक्ष्वाकुकुलक्षीरोदचन्द्रमाः । जितारिरित्यरिजयाद् यथार्थाख्यः क्षमापतिः॥ १०४ ॥ मृगेष्विव मृगेन्द्रस्य पक्षीन्द्रस्येव पक्षिषु । न समो नाऽधिको वाऽपि तस्याऽभूत् कोपि राजसु ॥१०५॥ स रेजे राजभी राजा पचीकृत्य प्रवेशितैः । ग्रहैरिव ग्रहपतिमण्डलान्तःप्रवेशिभिः ॥१०६॥ 5 नाऽयम्यं किश्चिदप्यूचे नाऽऽचचार च तादृशम् । नाऽचिन्तयच्च तादृक्षं स धर्म इव मूर्तिमान् ॥१०७॥ विनेतरि दुराचारानर्थिभ्योऽर्थाश्च दातरि । अधार्मिको दुःस्थितो वा तस्मिन् राझि न कोऽप्यभूत् ॥१०८॥ सोऽसपाणिः कृपालुश्च शक्तिमांश्च क्षमापरः । विद्वांश्च गतमात्सर्यो युवा चाऽऽसीजितेन्द्रियः ॥१०९॥ बभूव महिषी तस्साऽनुरूपा रूपसम्पदा । सेनानीर्गुणसैन्यानां सेनादेवीति नामतः ॥ ११० ॥ अषाधमान इतरान् पुरुषार्थान् यथाक्षणम् । अरस्त स तया देव्या रोहिण्येव हिमद्युतिः ॥ १११॥ 10
इतश्च नवमे कल्पे खमायुः पर्यपूरयत् । जीवस्तदानीं विपुलवाहनस्य महीपतेः ॥ ११२ ॥ फाल्गुनस सिताष्टम्यां चन्द्रे मृगशिरःस्थिते । आनतात् स परिच्युत्य सेनाकुक्षाववातरत् ॥ ११३॥ क्षणं सुखं तदा जज्ञे नारकप्राणिनामपि । लोकत्रयेऽपि चोयोतो विद्युदुझ्योतसोदरः ॥ ११४ ॥ शयानया रात्रिशेषे प्रविशन्तो मुखाम्बुजे । सेनादेव्या ददृशिरे महाखमाश्चतुर्दश ॥ ११५ ॥ गर्जन् गजपतिौरः शरन्मेघ इवोच्चकैः । वृषः स्फटिकशैलस्य गण्डशैल इवाऽमलः ॥ ११६ ॥ केसरी केसरमरेणाऽतिकुङ्कुमकेसरः । क्रियमाणाभिषेका च करिभ्यां कमलालया ॥ ११७ ॥ पञ्चवर्णप्रनसक् सन्ध्यानच्छवितस्करा । राजतो दर्पण इव सम्पूर्णो रजनीकरः ॥ ११८ ॥ विमंत्रितान्धकारं च चण्डदीधितिमण्डलम् । प्रकणत्किङ्किणीजालपताकश्च महाध्वजः ॥ ११९ ॥ तोपनीयः पयस्कम्मः पयोजपिहिताननः । विकासिभिः सयमानमिव पबैर्महासरः॥ १२०॥ उद्वीचिहस्तकैर्नृत्यग्निव क्षीरमहोदधिः । अदृष्टप्रतिमानं च विमानं रत्ननिर्मितम् ॥ १२१ ॥ रत्नपुञ्जो मणिगणः पातालफणिनामिव । विभावसुश्च निधूमः |त्यूषसपनोपमः ॥ १२२ ॥ देवी प्रबुद्धा तान् स्वमान् नृपायाख्यपोऽपि च । व्याख्यात् त्रैलोक्यवन्यस्ते नूनं सनुर्भविष्यति ॥१२३ ॥
इन्द्राधासनकम्पेन विज्ञायोपेत्य तत्र च । सेनादेवीं नमस्कृत्य स्वमार्थ व्याचचक्षिरे ॥ १२४ ॥ एतस्यामवसर्पिण्या तृतीयस्तीर्थनायकः । भविष्यति जगत्स्वामी तव स्वामिनि! नन्दनः ॥ १२५ ॥ तेन खमविचारेण स्तनितेनेव केकिनी । मुदिता तं निशाशेषं देव्यनैषीत् प्रजाग्रती ॥ १२६ ॥ 25 वजं वाकरोबीष कशानुमिव चारणिः । महासारं पवित्रं च गर्भ देवी बमार तम् ॥ १२७॥ देव्याः स उदरे गर्मो निगूढं ववृधे ततः । गङ्गाया इव पानीये तपनीयपयोरुहम् ॥ १२८ ॥ तदाऽभूतां दृशौ देव्याः सविकाशे विशेषतः । सरस्सा हि सरोजानि विशिष्यन्ते शरत्क्षणे ॥ १२९ ॥ लावण्यमङ्गे कुचयोः पीनत्वं मन्दता गतौ । देव्याः प्रतिदिनं गर्भानुभावादत्यरिच्यत ॥१३०॥ फाल्गुनय सिताष्टम्यां धौरिवाम्भोदलक्षणम् । गर्भ तं बिभ्रती साऽभूजगतोऽपि मुदे तदा ॥ १३१ ॥ 30 ततो नवसु मासेषु दिनपर्धाष्टमेषु च । मार्गशुक्लचतुर्दश्यां चन्द्रे मृगशिर स्थिते ॥ १३२ ॥
"भूताया दी संव. मो०॥१दक्षिणभरतार्धस । २ चन्द्रः। ३ धर्मादनपेतं धर्म्यम् न तथा अधर्म्यम् । चन्द्रः । विरेण्यमा स्थलोपका।६ लक्ष्मीः। ७ पुष्पमाला। ८ सन्ध्यासमयाभ्रकान्तिलुण्टाका । ९ चन्द्रः । १० कृतान्धक
ममलम् । सौवर्णः। नीयप संवृ० संल.॥१३ अग्निः। १४ प्रातःकालीनसूर्यसमानः। १५प्तमानि कालविशेषे। १६मारी। हीरकखलिः । १४ गुप्तं यथा स्यात् तथा। १९ रक्तकमलम् । २० ववृधे। 1 सङ्घसं० विनाऽन्यत्र-माघस्य सितसप्तम्यां संदू.ल. मो.॥
20
--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org