________________
२५८ कलिकालसर्वश्रीहेमचन्द्राचार्यप्रणीतं
[स्तीयं पर्व नवोदैव हि भार्येयं वृद्धौ च पितराविमौ । दुःस्थितौ श्वशुरौ चैतौ विधका भगिनी त्वियम् ॥ ७॥ इत्यजस्रं जनं पाल्यं विचिन्तयति मुग्धधीः । हृदि बद्धशिलाकल्पं न तु वेत्ति भवार्णवे ॥ ७१ ॥ न तृप्तोऽद्यापि दयितावपुराश्लेषशर्मणः । न धातः पयसश्चापि माल्येच्छा न ह्यपूर्यत ॥ ७२ ॥ न चाऽपूरि मनोहारिपदार्थक्षामनोरथः । वीणा-वेण्वादिगीतानां न प्रीतोऽसि मनागपि ॥ ७३ ।। अद्यापि च कुटुम्बाय भाण्डागारं न पूरितम् । नवीकृतं समुद्धृत्य जीर्णमेतन्न मन्दिरम् ॥ ७४ ॥ गमितेषु परां शिक्षा नाऽऽरूढोऽस्म्येषु वाजिषु । नोक्षाणो वाहिताश्चाऽमी सुखदाः स्यन्दनोत्तमैः ॥ ७५ ।। करोतीत्यन्तकालेऽपि पश्चात्तापं जडो जनः । धर्मश्चक्रे मया नेति नानूशेते मनागपि ॥ ७६ ॥
॥पञ्चभिः कुलकम् ॥ इतः सदोद्यतो मृत्युरितो नानापमृत्यवः । व्याधयोऽवस्थिताश्चेत इतो बहव आधेयः ॥ ७७॥ 10 राग-द्वेषादयश्चेतो द्विषन्तो नित्यमुद्यताः । इतः कषायाः प्रबलाः खला इन विपत्प्रदाः॥ ७८॥
न किश्चन सुखायेह संसारे मरुदेशवत् । सुखवासेन तिष्ठामीत्याः! प्राणी न विरज्यति ॥ ७९ ॥ सुखाभासविमूढस्य प्रसुप्तस्येव सौप्तिकम् । कालपाशः पतत्याशु सद्यः प्राणापहारकृत् ॥ ८॥ तदमुष्य शरीरस्य नश्वरस्य यथा तथा । फलं हि धर्माचरणं सिद्धान्नस्येव भोजनम् ॥ ८१॥
नश्वरेण शरीरेणाऽविनश्वरपदार्जनम् । अहो! सुकरमप्येतद् विमूढः क्रियते न हि ॥ ८२॥ 15 वपुषा तदनेनाऽद्य केतुं निर्वाणसम्पदम् । भृशमेषोऽहमुत्थास्ये निधास्ये राज्यमात्मजे ॥ ८३ ॥
इति निश्चित्य रभसादाजूहवदिलाप॑तिः । द्वारपालेन विमलकीत कीर्तिप्रियं सुतम् ॥ ८४॥
प्रकृष्टदैवतस्येव भक्त्या परमया पितुः । पादौ नत्वा कुमारः स बद्धाञ्जलिरदोऽवदत् ॥ ८५ ॥ महताऽपि निदेशेन प्रसीदाऽनुगृहाण माम् । पुत्रभाण्डमसौ बाल इति शङ्कां च मा कृथाः ॥ ८६ ॥ प्रत्यर्थिनः पार्थिवस्य कस्याऽऽच्छिन्देऽद्य मेदिनीम् । सपर्वतं पर्वतीयं नृपं के साधयामि चैं? ॥ ८७ ॥ सजलं जलदुर्गस्थमन्तयामि रिपुं च कम्? । यो वः शैल्यायतेऽन्योऽपि तमप्याशूत्खनाम्यहम् ॥८८॥ बालोऽपि तव पुत्रोऽसि क्षमो दुःसाधसाधने । तातस्यैव प्रभावोऽयं न भटम्मन्यताऽत्र मे ॥ ८९॥
राजाऽपि व्याजहारैवं प्रत्यर्थी पार्थिवो न मे । पर्वतीयो न वा कोऽपि व्यतिक्रॉमति मद्वचः ॥९॥ न च द्वीपाधिपः कोऽपि ममाज्ञां व्यतिलचन्ते । यत्साधनाय वत्स! त्वां प्रहिणोमि महाभुज! ॥९१॥
एकः शल्यायते किन्तु भंववासो ममानिशम् । तदुद्धर कुलोत्स! धराभार धुरन्धरः ॥ ९२ ॥ 25 मयेव गृह्यतामेतत् त्वया राज्यं क्रमागतम् । आत्तदीक्षो यथाऽभीक्ष्णं भववासं त्यजाम्यहम् ॥ ९३ ॥
अलङ्घनीयां गुर्वाज्ञां स्वसन्धों चाऽधुना कृताम् । संसरन् वत्स! भक्त्याऽपि नाऽन्यथा कर्तुमर्हसि ॥ ९४॥
दध्याविति कुमारोऽपि तातेनाऽऽज्ञां प्रयच्छता। मत्सन्धां स्मारयता चहा! कृतोऽसि निरुत्तरः ॥९५॥ इत्यादि चिन्तयन् राजपुत्रो राज्ञा खपाणिना । आदाय राज्ये निदधे साभिषेकमहोत्सवम् ॥ ९६ ॥
राजाऽपि कृतदीक्षाभिषेको विमलकीर्तिना । शिविकाधिरूढश्चाऽगात् परि नाम्ना खयम्प्रभम् ॥९७॥ 30 तस चाऽऽचार्यवर्यस समीपे स नृपाग्रणीः । प्राबाजीत् सर्वसावधप्रत्याख्यानपुरःसरम् ।। ९८॥
साम्राज्यवन् परिव्रज्यामन्तरङ्गद्विषजयात् । स संयमरथारूढो विधिवत् पर्यपालयत् ॥ ९९ ॥ विशतेः स्थानकानां च स्थानकैरपरैरपि । स पुपोष निजं कर्म तीर्थकुनामनामकम् ॥१०० ॥ उपसगैरनुद्विनो मोदमानः परीपहैः । स आयुःक्षपयामास स्वयाममिव यामिकः ॥१०१॥
20
१ सततम् । २ वृपमाः। ३ वेगवन्तः। ४ नानुतप्यते । ५ मानसिक्यः पीडाः । ६ रात्रियुद्धम् । ७ मोक्षपदोपार्जनम् । राजा । ९ शत्रोः। १. गिरिवासिनम् । *वा संवृ० संल. सङ्घ ॥ नाशयामि । १२ शल्यवदाचरति । १३ उवाच । "उछाते। १५ गृहवास इत्यर्थः । १६ गृहीतवीक्षः । १. आत्मीयप्रतिज्ञाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org