________________
प्रथमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
२५७
घृतोदस्य पयांसीव प्रचुराणि घृतानि च । सुधाया इव मित्राणि चित्राणि व्यञ्जनानि च ॥ ४२ ॥ मण्डकोः खण्डसम्मिना मोदकाच प्रमोदकाः । खाानि स्वादहृद्यानि मण्डिकाः खण्डमण्डिताः॥४३॥ सुकुमारा मर्मराला वटकाचाऽतिपेशलाः । तीमँनं च मनोहारि पिच्छिलानि दधीनि च ॥४४॥ दुग्धानि क्वार्थसिद्धानि मार्जिता क्षुत्प्रमार्जनी । राजभोजनवत् तंत्राऽभवन् श्रावकभोजने ॥४५॥
पञ्चभिः कुलकम् ॥ 5 एषणीय-कल्पनीय-प्रासुकानि पुनः स्वयम् । महामुनीनां स ददौ महाराजो महामनाः ॥ ४६॥ दुर्भिक्षकालं सकलमेवं स वसुधाधवः । ददौ सकलसङ्घाय भोजनादि यथाविधि ॥४७॥ वैयावृत्यं समाधिं च सर्वसङ्घस्य कुर्वता । अर्जितं तीर्थकुनाम कर्म तेन महीभुजा ॥४८॥
निषण्णश्चन्द्रशालान्तरपरेवुः स उद्यतम् । नभस्यपश्यदम्भोदमातपत्रमिवाऽवनेः ॥४९॥ नीलीरक्तांशुकमयः स व्योम्न इव कञ्चकः । तडिल्लतामण्डनभृत् समन्ताद् व्यानशे दिशः॥५०॥ 10 अत्रान्तरे समुत्तस्थावामूलान्दोलितद्रुमः । पातालकुम्भसर्वखमिवोचण्डः समीरणः ॥५१॥ वातेन तेन महता स महानपि वारिदः । अबैतूलमिवोद्भूय दिशोदिशमनीयत ॥ ५२॥ आविर्भूतं क्षणान्मेधं विनष्टं च क्षणादपि । तं प्रेक्ष्य स क्षमानाथः सुधीरेवमचिन्तयत् ॥ ५३ ॥ असौ सम्पश्यमानानां दृष्टनष्टो यथाऽम्बुदः । ज्ञातं तथाऽन्यदपि हि संसारे सर्वमीदृशम् ॥ ५४॥ __ तथाहि खेच्छया जल्पन गायन् नृत्यन् हसनथ । दीव्यन् विचित्रान् द्रविणार्जनोपायान् विचिन्तयन् ॥ 15 गच्छंस्तिष्ठन् शयानो वाऽधिरूढो वाहनेऽपि वा । कुप्यन् वा विलसन् वाऽपि गृहे वा बहिरेव वा ॥५६॥ कालादिष्टेन सद्योऽपि दन्दर्शकेन दश्यते । विद्युद्दण्डेन चण्डेन विनिपत्य निपात्यते ॥ ५७ ॥ मतगजेन मत्तेन पिष्यते वा रदौदिभिः । जीर्णवप्रादिभित्त्या वा विनिपत्य पिधीयते ॥ ५८ ॥ व्याघेण भक्ष्यते वाऽपि बुभुक्षाक्षामकुक्षिणा । दोषेण वैक्रियेणाऽथ दुश्चिकित्सेन गृह्यते ॥ ५९॥ अकस्मादुन्मदेनाऽथ पात्यते तुरगादिना । वैरि-चौरादिना वाऽपि हन्यते क्षुरिकादिना ॥ ६०॥ 20 दह्यते वा प्रदीप्तेन प्रदीपनकवह्निना । कृष्यते वा महावृष्टिसरित्पूरादिरंहसा ॥ ६१॥ बलवद्वातदोषेण सर्वाङ्गं भज्यतेऽथवा । आश्लिष्यते श्लेष्मणा वा शान्ताशेषतनूष्मणा ॥ ६२ ॥ यदि वा पित्तदोषेण प्रबलेन विलुप्यते । सद्यस्कसन्निपातेन यदि वा परिभूयते ॥ ६३ ॥ लूतया भक्ष्यते वाऽथ प्राप्यते रोंजयक्ष्मणा । विसूचिकोपद्रवेण यदि वापि कदर्थ्यते ॥ ६४ ॥ आसाद्यते दुरन्तेनाऽर्बुदोख्येन व्रणेन वा । मोह्यते वा प्रवाहेण ग्रहेण्या गृह्यतेऽथवा ॥६५॥ रुध्यते वाऽपि विद्ध्या कोसेन क्लिश्यतेऽथवा । श्वासेन पूर्यते वापि शूलेनोन्मूल्यतेऽथवा ॥ ६६ ॥ सदा सन्निहितैर्दोषैरित्यादिभिरनेकशः । दूतैरिव कृतान्तस्य जन्तुः पञ्चत्वमाप्यते ॥ ६७ ॥
॥ त्रयोदशभिः कुलकम् ॥ तथापि शाश्वतम्मन्यः पशुवन्मन्दधीर्जनः । प्रवर्त्तते न ग्रहीतुं जीवितव्यतरोः फलम् ॥ ६८ ॥ हा! दुःस्थिता भ्रातरो मे बाला मेऽद्यापि सूनवः । अनूढा कन्यका चेयं पाठ्यश्चायं कुमारकः॥ ६९॥ 30
25
१ तमाम्नः समुद्रस्य । २ शाकानि। ३ भक्ष्यविशेषा भाषायां "मांडा" । ४ भक्ष्यविशेषा भाषायां "खाजा"। ५ मर्मरशन्दवन्तः। ६ 'वडा' इति भाषायां प्रसिद्धिः। क्वथिका 'कढी' इति भाषायाम् । * पिच्छला संवृ० मो०॥८चिकणानि ।
+ °थशुद्धा संवृ. संल. मो० ॥ ९ रसाला 'श्रीखंड' इति भाषायां प्रसिद्धिः। तत्र जाता श्राव सझा मो.॥ त्रिभिर्विशेषकम् सङ्घ. मो० ॥ १. निर्दोष साधुयोग्यमचित्तं च । ११ प्रासादतलं 'अगासी' इति लोके ख्यातम् । १२ अकम् । १३ छत्रम् । १४ प्रचण्डः। १५ वायुः।१६ सण । १७ दन्तादिभिः । कापि संवृ० संल.॥१८ मत्तेन । १९ एते रोगविशेषाः। २० मृत्युः। सङ्घ प्रवाषेवेदं दृश्यते ॥ २१ अविवाहिता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org