________________
२५६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्य प्रणीतं
१४ ॥
तस्मिन् श्रावकधर्मोऽभूत् स द्वादशविधोऽपि हि । अनारतमपि स्थेयान् नीलीराग इवांशुंके ॥ राजच जागरूको यथा द्वादशधा स्थिते । तथा श्रावकधर्मेऽपि स बभूव महामनाः ।। १५ ।। धर्म प्ररोहबीजानि द्रविणानि यथोचितम् । सप्तक्षेत्र्यां पवित्रात्मा निरन्तरमुवाप सः ॥ १६ ॥ दीना नाथैकशरणादेक कारुणिक्रात् ततः । न रिक्को निर्ययार्वर्थी समुद्रादिव वारिदः ॥ १७ ॥ 5 याचकेषु ववर्षाऽर्थं स पर्जन्य इघोदकम् । केवलं निरहङ्कारो न जगर्ज मनागपि ॥ १८ ॥ कण्टकोच्छेदपरशौ त्यागकल्प महीरुहे । नाभवद् दुःस्थितः कोऽपि तस्मिन् शासति मेदिनीम् ॥ १९ ॥ तस्मिन्नपि महीनाथे कदाचिदथ भीषणम् ! महादुर्भिक्षेमभवद् दुर्लङ्घा भवितव्यता ॥ २० ॥ अन्धकारीकृतदिशामम्भोदानामभावतः । वर्षाकालः समजनि, रौद्रो ग्रीष्म इवाऽपरः ॥ २१ ॥ शोषयन्तोऽशेषतो यान्यंहिपोन्मूलनोन्मदाः । कल्पान्तानिलसोदर्या नैर्ऋता वायवो ववुः ॥ २२ ॥ 10 मेघा बभ्रुवुर्नभसि काकोदरसहोदराः । कांस्यतालसमान श्रीरदृश्यत दिवाकरः ॥ २३ ॥
20
धान्याभावादजायन्त पौर- जनपदा जनाः । तापसा इव वृक्षत्वक् कन्द-मूल-फलाशिनः ॥ २४ ॥ कथञ्चिदपि लब्धेन ग्रॉंसेन महताऽपि हि । न तृप्यन्ति स्म सञ्जातभस्मका इव मानवाः ।। २५ ।। भिक्षैया लज्जमानः सन् भिक्षाग्रहणहेतवे । बभूव लोकः प्रायेण मायातापसवेषभृत् ॥ २६ ॥ पितरो मातरः पुत्रा मिथस्त्यक्त्वाऽनायया । अन्यतश्चाऽन्यतश्चाऽयुर्दिक्सम्मोहवशादिव ॥ २७ ॥ 15 अपि सम्पश्यमानस्य क्रन्दतोऽतिबुभुक्षया । लब्धं कथञ्चिदन्नादि पुत्रस्य न ददौ पिता ॥ २८ ॥ विक्रीणीते स्म चणकप्रसृत्या निजबालकम् । माता भ्रमन्ती रथ्यासु शूर्पादि श्रपची यथा ॥ २९ ॥ प्रातरीर्श्वरहर्म्याणां पतितानङ्गणे कणान् । वैरीकाश्चिक्यिरे रङ्का गृहपारापता इव ॥ ३० ॥ अपि कान्दविकादीनामापणेषु मुहुर्मुहुः । लब्ध्वा च्छलं श्वान इव भोज्यमाचिच्छिदुर्जनाः ॥ ३१ ॥ अप्यहः सकलं भ्रान्त्वा कथञ्चिदहरत्यैये । ग्रासमात्रमपि प्राप्य सुदिनं मेनिरे नराः || ३२ || रङ्कः कॅरङ्कसङ्काशैर्लुठितैरतिभीषणैः । श्मशानादत्यरिच्यन्त पुरराजपथा अपि ।। ३३ ।। रलैरोलैरविरलैः प्रसरद्भिः पदे पदे । अदूयन्त सतां कर्णाः क्षिप्ताभिरिव सूचिभिः ॥ ३४ ॥
25
[
तृतीयं पर्व
कल्पान्तकल्पे दुष्काले तस्मिन् सङ्कं चतुर्विधम् । क्षीयमाणं नृपः प्रेक्ष्य, दध्याविति महामनाः ॥ ३५ ॥ इयं खलु धरित्री मे त्रातव्या सकलाऽपि हि । किं करोमि परं ? पापः कालोऽयं नाऽस्त्रगोचैरः ||३६|| तथाप्यवश्यं त्रातव्यः सङ्घोऽयमखिलोऽपि हि । पौत्रोपकारे प्रथमं महतां यदुपक्रमः ॥ ३७ ॥ चिन्तयित्वैवमुर्वाशैः सूदौनिति समादिशत् । सङ्घभुक्तावशेषं भो ! भोक्ष्येऽहं खल्वतः परम् ॥ ३८ ॥ मत्कृते कृतमन्नादि दातव्यं त्रैतिनामतः । श्रावका भोजयितव्याः पृथक् सिद्धौदनेनं तु ॥ ३९ ॥ तथेति प्रतिपद्याऽऽज्ञां राज्ञस्ते सूदपुङ्गवाः । तथैव विदधुर्नित्यं स्वयं चैक्षिष्ट पार्थिवः ॥ ४० ॥ नासिकापेयसौरभ्याः कलमाः कॅमला इव । स्थूला माषकणेभ्योऽपि मुद्रा रससमुद्रकाः ॥ ४१ ॥
Jain Education International
१ अत्यन्तं स्थिरः । २ वस्त्रे । ३ जागरणशीलः । ४ धर्माङ्कुरस्य बीजानि हेतव इत्यर्थः । ५ द्रव्याणि । ६ जिनचैत्यं जिन प्रतिमा पुस्तकं साधुः साध्वी श्रावकः श्राविका चेति सप्तक्षेत्री । ७ शून्यहस्तः । ८ अर्थी - याचकः । ९ मेघः । १० अस्पमपि । ११ दानकल्पवृक्षे । १२ दुष्कालः । १३ वृक्षोन्मूलनोन्मत्ताः । १४ काकोदरसर्पसमानाः श्वेता इत्यर्थः । १५ कांस्य पृष्ठसमानकान्तिः पीत इत्यर्थः । १६ नगरवासिनो देशवासिनश्च । १७ कवलेन । १८ जात भस्मकाभिधानरोगा इव । * भिक्षाया संवृ० ॥ १९ कृत्रिमतापसवेषधरः । २० बुभुक्षया । २१ जग्मुः | २२ चणकाद्धाञ्जलिना । २३ चाण्डाली । २४ धनाढ्य गृहाणाम् । २५ दीनाः । २६ ६हेषु । २७ दिनान्ते । २८.अस्थिपञ्जरसदृशैः । २९ प्रकृष्टरुदितकोलाहलैः, 'रडारोल' इति भाषायाम् । ३० कल्पान्तसदृशे । ३१ अस्त्रघात्यः । ३२ गुणवदुपकारे । ३३ प्रारम्भः । ३४ राजा । ३५ पाचकान् । ३६ मुनीनाम् । न च संवृ० ॥ ३७ पुं-नपुंसकोऽयं शब्दः । ३८ समुङ्गकः सम्पुटः 'ढबो' इति भाषायां प्रसिद्धः ।
For Private & Personal Use Only
www.jainelibrary.org