SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ।। नमः श्रीधर्मकथानुयोगव्याख्याभ्यः विदेभ्यः । कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविनिर्मितं त्रिषष्टिशलाकापुरुषचरितम् । श्रीसम्भवजिनादिशीतलजिनपर्यन्तजिनाष्टकचरितप्रतिबद्ध तृतीयं पर्व । प्रथमः सर्गः। श्रीसम्भवजिनचरित्रम्। त्रैलोक्यप्रभवे पुण्यसम्भवाय भवच्छिदं । श्रीसम्भवजिनेन्द्राय मनोभवभिदे नमः ॥१॥ धात्रीपवित्रीकरणं लैवित्रं कर्मवीरुधाम् । चरित्रमथ वक्ष्यामि श्रीसम्भवजिनेशितुः ॥२॥ घातकीखण्डद्वीपस्य क्षेत्र ऐरावताभिधे । पुरी क्षेमपुरी नामा क्षेमधामाऽस्ति विश्रुतो ॥३॥ वस्थामासीत् समायात इवोव्यां मेषवाहनः । महीपतिर्विपुलधीर्नाम्ना विपुलवाहनः ॥ ४॥ आरामिक इवाऽऽराममविराममसौ प्रजाः । विधिवत् पालयामास च्छिन्दन शल्यानि सर्वतः ॥५॥ प्रीणयन्ती जनपदान् परितः पथिकानिव । नीतिकल्लोलिनी तस्स प्रससार निरन्तरम् ॥ ६॥ अपराधं परस्येव स्वस्यापि न्यायतत्परः । असह्यशासनधरः स न सेहे मनागपि ॥ ७॥ उपायं प्रायुक्त तुर्य दोषमानेन दोषिषु । सोऽगदं गदमानेनाऽऽतुरेष्विव चिकित्सकः ॥८॥ गुणानुरूपमकरोदर्चना गुणिनामसौ । विवेकिनां विवेकस्य फलं यौचित्यवर्तनम् ॥९॥ मदस्थानानि तस्याऽऽसन् न मदायाऽन्यलोकवत् । नदीवन्न नदीभर्तुरुत्सकीय धनागमः ॥१०॥ 10 तस्य चिचे चैत्य इव सर्वज्ञो देवता सदा । वाचि जैनागम इव सर्वज्ञगुणशंसनम् ॥११॥ देवाय तीर्थनाथाय गुरवे च सुसाघवे । स शिरोऽनमयत् पृथव्यां सर्वोऽप्यन्यस्तमानमत् ॥ १२ ॥ जनार्त-रौद्रध्यानेन खाध्यायेन जिनार्चया । उपाददे स परमं मनो-चार-वपुषां फलम् ॥ १३ ॥ मदनविनाशकाय । २ पृथ्वी।छेदकम् । ४ कर्मळतानाम् ।* °मकरीना संवृ०॥५प्रसिद्धा।इन्द्रः। सानि। नही। रमजाका . तुर्य उपायो दण्डः। "अपराधमनुसारेण। १२ यथा वैद्यः रोयिषु रोगानुसारेण औषध प्रयो। + पर्तिवाम गर्वाय वृद्धये १४ प्रशंसा । १५मानन्द्राल्याशुभध्यानयुगलबर्जितेन, धर्म-अध्यानसहितेने. अर्थः। सूत्रातदुभयवाचना-प्रणमादिरूपेण । १७ लेमे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001456
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 2 3 4
Original Sutra AuthorHemchandracharya
AuthorPunyavijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1990
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy