________________
15
२५२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व स पञ्च समितीस्तिस्रो, गुप्तीश्चारित्रमातृकाः । सम्यगाराधयामास, प्रमादरहितः सदा ॥ ६६० ॥ स नित्यं भगवत्पादशुश्रूषोद्भूतया मुदा । परीषहभवं क्लेशं, न विवेद मनागपि ॥ ६६१ ॥ त्रैलोक्यचक्रिणो भ्राता, चत्र्यसि स्वयमित्यपि । नाऽहश्चक्रे किन्तु चक्रे, विनयं संयतेषु सः॥६६२ ॥ पश्चादुपात्तदीक्षोऽपि, तपसाऽध्ययनेन च । चिरप्रव्रजितेभ्योऽपि, राजर्षिः सोऽत्यरिच्यत ॥ ६६३ ॥ घातिकर्मक्षयात् तस्य, केवलज्ञानमुज्ज्वलम् । उदभूद् दुर्दिनच्छेदात् , प्रताप इव भास्वतः ॥ ६६४ ॥
आरभ्य केवलोत्पत्तेरुा विहरतः सतः । अजितस्वामिनः पश्चनवतिर्गणभृद्वराः ॥ ६६५ ॥ लक्षं मुनीनां साध्वीनां, पुनस्त्रिंशत्सहस्रयुक् । लक्षत्रयं पूर्वभृतां, सप्तत्रिंशच्छतानि तु ॥ ६६६ ॥ मनःपर्ययिसहस्राः, सहसार्धचतुःशताः । द्वादशाऽवधिमाजां तु, चतुर्णवतिशत्यथ ॥ ६६७ ॥
उत्पन्नकेवलानां तु, द्वाविंशतिसहस्यभूत् । द्वादश वादलब्धीनां, सहस्राः सचतुःशताः ॥ ६६८ ॥ 10 वैक्रियलब्धिसहस्रा, विंशतिः सचतुःशताः । ऊना द्वाभ्यां सहस्राभ्यां, श्रावकाणां त्रिलक्ष्यथ ।। ६६९ ॥
पञ्चचत्वारिंशत्सङ्ख्यैः, सहस्रैरधिकानि तु । श्राविकाणां पञ्चलक्षाण्यजायन्त जगद्गुरोः ॥ ६७० ॥ एकाङ्गोने पूर्वलक्षे, दीक्षाकल्याणकाद् गते । निर्वाणसमयं ज्ञात्वा, सम्मेतादि विभुर्ययौ ॥ ६७१ ॥ लोकाग्रस्येव सोपानं, सम्मेतमधिरूढवान् । द्वासप्ततिपूर्वलक्षसङ्ख्यायुरजितप्रभुः ॥ ६७२ ॥
श्रमणानां सहस्रेण, समं तत्र जगद्गुरुः । पादपोपगमं नामाऽनशनं प्रत्यपद्यत ॥ ६७३ ॥ ___ तदा युगपदिन्द्राणामासनानि चकम्पिरे । अनिलान्दोलितोद्यानवृक्षशाखा इवाऽभितः ॥ ६७४ ॥ प्रयुक्तावधयस्ते तु, निर्वाणसमयं प्रभोः । विदाञ्चक्रुरुपेयुश्च, सम्मेतगिरिमूर्धनि ॥ ६७५ ॥ तत्र प्रदक्षिणीचक्रुः, सामरास्ते जगद्गुरुम् । शुश्रूषमाणास्तस्थुश्च, पादान्तेऽन्तिपदो यथा ॥ ६७६ ।। पादपोपगमस्याऽथ, मासे पूर्णे जगद्गुरुः । चैत्रस्य शुक्लपञ्चम्यां, चन्द्रे मृगशिरःस्थिते ॥ ६७७ ॥
पर्यङ्कस्थः काययोगे, बादरेऽवस्थितोऽरुणत् । बादरौ चित्त-वाग्योगी, रथस्थ इव वाजिनौ ।। ६७८ ॥ 20 सूक्ष्मेण काययोगेन, काययोगं च वादरम् । ततो रुरोध भगवान् , दीपेन ध्वान्तपूरवत् ॥ ६७९ ॥
काययोगे स्थितः सूक्ष्मे, योगौ वाक्चित्तयोरपि । सूक्ष्मौ रुरोध भेजे च, ध्यानं सूक्ष्मक्रियं ततः ॥६८०॥ शुक्लध्याने चतुर्थे च, शैलेशीकरणं प्रभुः । पञ्चलघ्वक्षरोच्चारमात्रकालं समाश्रयत् ॥ ६८१ ॥ क्षीणावशिष्टकर्मा च, सिद्धानन्तचतुष्टयः । परमात्मा प्रभुः प्राप, लोकाग्रमृजुना पथा ॥ ६८२ ॥
___ अष्टादश पूर्वलक्षी, कौमारेऽगाजगत्पतेः । पूर्वलक्षास्त्रिपश्चाशद्, राज्ये पूर्वाङ्गसंयुताः ॥ ६८३ ॥ 25. व्रते छद्मस्थभावेऽगाद् , द्वादशाब्यथ केवले । पूर्वलक्षं द्वादशाब्द्या, पूर्वाङ्गेण च वर्जितम् ॥ ६८४ ॥
ततश्चर्षभनिर्वाणानिर्वाणमजितप्रभोः । पञ्चाशत्कोटिलक्षेषु, सागराणां गतेष्वभूत् ॥ ६८५॥ सहस्रं मुनयस्तेऽपि, पादपोपगमस्थिताः । उत्पन्नकेंवला रुद्धयोगास्तद्वद् ययुः शिवम् ॥ ६८६ ॥ तत्र कृत्वा समुद्धातं, सगरोऽपि महामुनिः । स्वामिप्राप्तं पदं प्रापाऽनुपदीव क्षणादपि ॥ ६८७ ॥
तदा च स्वामिनिर्वाणपर्वणा समजायत । अदृष्टशर्मणां शर्म, नारकाणामपि क्षणम् ॥ ६८८ ॥ 30 अथाऽङ्गं स्वामिनः शक्रो, दिव्यैरस्नपयजलैः । गोशीर्षचन्दनरसैः, सशोको विलिलेप च ॥ ६८९ ॥
खाम्यङ्गं वाँसयामास, वाससा हंसलक्ष्मणा । भूषयामास च हरिविचित्रैर्दिव्यभूषणैः ॥ ६९० ॥ मुनीनामपरेषां तु, शरीरेषु दिवौकसः । स्नानाऽङ्गराग-नेपथ्या-ऽऽच्छादनानि वितेनिरे ॥ ६९१ ॥ आरोग्य दिव्यशिविकां, स्वामिदेहं पुरन्दरः । गोशीर्षचन्दनमयीमानैपीदुचितां चिताम् ॥ ६९२ ॥ आरोग्य शिविकामन्यमुन्यङ्गान्यपरे पुनः । गोशीर्षकाष्ठरचितां, चितां निन्युर्दिवौकसः ॥ ६९३ ॥
न अहङ्कारं चकार । २ मुनिषु। ३ एकपूर्वाङ्गोने इत्यर्थः। ४ शिष्याः। ५ अनुगामीव। ६सुखम् । ७ आच्छादयामास ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org