________________
सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
नाथेयं घट्यमानाऽपि दुर्घटा घटतां कथम् १ । उपेक्षा सर्वसत्त्वेषु, परमा चोपकारिता ॥ ६२७ ॥ द्वयं विरुद्धं भगवंस्तव नाऽन्यस्य कस्यचित् । निर्ग्रन्थता परा या च, या चोच्चैश्चक्रवर्तिता ॥ ६२८ ॥ नारका अपि मोदन्ते, यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः १ ॥ ६२९ ॥ मोऽद्भुतोऽद्भुतं रूपं, सर्वात्मसु कृपाऽद्भुता । सर्वाद्भुतनिधीशाय तुभ्यं भगवते नमः ॥ ६३० ॥
इति स्तुत्वा जगनाथं, यथास्थानं निषद्य च । सुधानिस्यन्दसधीचीं, सोऽश्रौषीद् धर्मदेशनाम् ॥ ६३१ ॥ 5 देशनान्ते च सगरो, नमस्कृत्य पुनः प्रभुम् । रचिताञ्जलिरित्यूचे, गद्गदाक्षस्या गिरा ।। ६३२ ॥ न खो न च परः कोऽपि, तीर्थेश ! तव यद्यपि । तथाप्यज्ञानतो नाथ !, मया पर्यनुयुज्यसे ॥ ६३३ ॥ विश्वमप्युत्तारयसि, भवाम्भोधेर्दुरुत्तरात् । नाथ ! तत्र निमज्जन्तं कथं मां त्वमुपेक्षसे ॥ ६३४ ॥ संसारगर्तपतनादनेकक्लेशसङ्कुलात् । रक्ष रक्ष जगन्नाथ !, दीक्षां देहि प्रसीद मे ।। ६३५ ॥ संसारसुखमूढेन, मयाऽऽयुरियदात्मनः । निष्फलं क्षपितं स्वामिन् !, बालेनेवाऽविवेकिना ॥ ६३६ ॥ विज्ञाप्यैवं तस्थिवांसं, सगरं रचिताञ्जलिम् | भगवानप्यनुजज्ञे, दीक्षाग्रहणकर्मणि ॥ ६३७ ॥
10
,
अथोत्थाय नमस्कृत्य, भगवन्तं भगीरथः । एवमभ्यर्थयाञ्चक्रेऽभ्यर्थनाकल्पभूरुहम् || ६३८ ॥ दीक्षां दास्यन्ति तातस्य, स्वामिपादाः परं क्षणम् । प्रतीक्षणीयं कुर्वेऽहं यावन्निष्क्रमणोत्सवम् ॥ ६३९ ॥ काप्यपेक्षा मुमुक्षूणां न यद्यप्युत्सवादिषु । तथापि मेऽनुरोधेन, तातोऽप्येवं करिष्यति ॥ ६४० ॥ ततस्तदनुरोधेन, सगरोऽत्युत्सुकोऽपि सन् । जगाम नगरीं भूयः, प्रणिपत्य जगद्गुरुम् ॥ ६४१ ॥ सिंहासननिषण्णस्य, सगरस्य भगीरथः । दीक्षाभिषेकमकरोत् पुरुहूत इवाऽर्हतः ॥ ६४२ ॥ उन्मृष्टो गन्धकाषाय्या, लिप्तो गोशीर्षचन्दनैः । मङ्गल्ये पर्यधत्ताऽथ, सगरो दिव्यवाससी ॥ ६४३ ॥ ततो देवोपनीतानि, दिव्यालङ्करणानि च । अलश्चक्रे शरीरेण, गुणालङ्करणोऽपि सः ॥ ६४४ ॥ यथाकाममथाऽर्थिभ्यः, प्रदाय सगरो वसु । शिबिकामारुरोहोचैर्विशदच्छत्र-चामरः ॥ ६४५ ॥ प्रत्यापणं प्रतिगृहं, प्रतिरथ्यं च नागरैः । नगर्यां विदधे मञ्च - पताका-तोरणादिकम् ॥ ६४६ ॥ स्थाने स्थाने नागरैश्थ, जनैर्जानपदैरपि । पूर्णपात्रादिना हर्षात् प्रकृतानेकमङ्गलः || ६४७ ॥ पुनः पुनः प्रेक्ष्यमाणः स्तूयमानः पुनः पुनः । पुनः पुनः पूज्यमानोऽन्वीयमानः पुनः पुनः ॥ ६४८ ॥ विनीतामध्यतश्चक्री, घुमेध्येनेव चन्द्रमाः । भृशायमानोऽपि जनोपरोधाच्छनकैर्ययौ ॥ ६४९ ॥
२५१
Jain Education International
For Private & Personal Use Only
15
॥ त्रिभिर्विशेषकम् ॥ भगीरथेन सामन्तैरमात्यैः सपरिच्छदैः । खेचरैवाऽन्वीयमानः, सगरोऽगाजिनान्तिकम् ।। ६५० ।। 25 तत्र प्रदक्षिणीकृत्य, भगवन्तं प्रणम्य च । भगीरथोपनीतं स यतिवेषमुपाददे ॥ ६५१ ॥ समक्षं सर्वसङ्घस्य, स्वामिवाचनयोच्चकैः । पठन् सामायिकं दीक्षां चतुर्यामां स आददे ।। ६५२ ।। कुमारैः सह ये जग्मुर्नृप-सामन्त-मत्रिणः । सगरेण समं तेऽपि भवोद्विग्नाः प्रवव्रजुः ॥ ६५३ ॥ चक्रे चक्रमुनेस्तस्य, मनः कुमुदकौमुदीम् । अनुशिष्टिमयीं धर्मदेशनां धर्मसारथिः ॥ ६५४ ॥ पूर्णायामथ पौरुष्यां, देशनां विससर्ज ताम् । देवच्छन्दमलञ्चक्रे, ततश्चोत्थाय तीर्थकृत् ॥ ६५५ ॥ स्वाम्यँङ्घ्रिपीठमध्यास्य, चक्रे गणधराग्रणीः । स्वामिप्रभावात् स्वामीव, देशनां संशयच्छिदम् ॥ ६५६ ॥ द्वितीयस्यां च पौरुष्यां, पूर्णायां सोऽपि देशनाम् । संवत्रे स्तनितमिव प्रवृष्टः प्रावृडम्बुदः ।। ६५७ ।। ततः स्थानादथाऽन्यत्र, विहर्तुं प्राचलत् प्रभुः । देवा भगीरथाद्याच, स्थानं निजनिजं ययुः ॥ ६५८ ॥ विहरन् स्वामिना सार्धं, सगरोऽपि महामुनिः । अध्यैष्ट द्वादशाङ्गानि, मातृकामिव लीलया ।। ६५९ ।। १ एतावदायुष्यम् । २ अनुज्ञां ददौ । ३ प्रार्थनापूरणे कल्पवृक्षसदृशम् । ४ आग्रहेण । ५ गगनमध्येन । ७ तीर्थकराध्यासितसिंहासन पादपीठमित्यर्थः । ८ प्रथमो गणधरः । ९ द्वादशाक्षरीवर्णानिव ।
30
प्रभुः ।
६ अजित
20
www.jainelibrary.org