________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
द्वितीय पर्व कुम्भकारस्य तस्योपरोधाद् ग्रामजनोऽखिलः । भूतः पात्रमिव प्राप्तं, तं सङ्घममुचत् तदा ॥ ५९३ ॥ अन्येधुरेकवास्तव्यदस्युदोषान्महीभुजा । सवाल-वृद्धः स ग्रामो, दाहितः परराष्ट्रवत् ॥ ५९४ ॥ मित्रेणाऽऽमत्रितः कुम्भकारो ग्रामान्तरं गतः । दाहात् तेनावशिष्टोऽभूत् , सर्वत्र कुशलं सताम् ॥५९५॥ ततः स कालयोगेन, कालधर्ममुपागतः । वणिग् विराटदेशेऽभूद् , द्वितीय इव यक्षराट् ॥ ५९६ ॥ स तु ग्रामजनो मृत्वा, विराटविषयेऽपि हि । जनो जानपदो जज्ञे, तुल्या भूस्तुल्यकर्मणाम् ॥५९७॥ मृत्वा च कुम्भकृजीवस्तत्राऽभूत् पृथिवीपतिः । ततोऽपि मृत्वा कालेन, देवोऽभूत् परमर्द्धिकः ॥ ५९८ ॥ च्युत्वा च देवसदनाजातोऽसि त्वं भगीरथः। ते च ग्राम्या भवं भ्रान्त्वा, जहुप्रभृतयोऽभवन्॥५९९॥ मनस्कृतेन सङ्घोपद्रवरूपेण कर्मणा । युगपद् भरमसादासन् , निमित्तं ज्वलनप्रभः॥६००॥ तन्निवारणरूपेण, त्वं पुनः शुभकर्मणा । तस्मिन्निव भवेत्रापि, न दग्धोऽसि महाशय ! ॥६०१॥
केवलज्ञानिनस्तसादाकयेत्थं भगीरथः । परं संसारनिर्वेद, विवेकोदधिरादधे ॥ ६०२॥ गण्डोपरि स्फोट इव, दुःखं दुःखोपरि प्रभोः । मा भूत् पितामहस्येति, न प्रात्राजीत् तदैव सः ॥६०३।। केवलज्ञानिनः पादान, वन्दित्वाऽथ भगीरथः । रथमारुह्य भूयोऽपि, साकेतनगरं ययौ ॥ ६०४ ॥
आज्ञां कृत्वाऽभ्युपेतं तं, प्रणमन्तं पितामहः । मुहुः शिरसि जघौ चं, पृष्ठेऽस्पाक्षीच पाणिना ॥६०५॥
भगीरथमथोवाच, सगरः स्नेहगौरवात् । बालोऽप्यसि वयो-बुद्धिस्थविराणां त्वमग्रणीः ॥ ६०६ ॥ 15 बालोऽसीति स मा वादी, राज्यभारं गृहाण नः । तरामो येन निर्भाराः, सन्तः संसारसागरम् ॥६०७॥
मैवः स्वयम्भूरमणाधिवद् यद्यपि दुस्तरः । तीर्णस्तथापि मत्पूर्वैरिति श्रद्धा ममाऽप्यभूत् ॥ ६०८॥ वत्स ! तेषामप्यपत्यै, राज्यभार उपाददे । ततस्तद्दर्शितः पन्थाः, पाल्यतां ध्रियतां मही ॥ ६०९॥
नत्वा भगीरथोऽप्येवमभाषत पितामहम् । युक्तमादित्सते तातः, प्रवज्यां भवतारणीम् ॥ ६१०॥
खामिन् ! बतायाऽयमपि, जनः किन्तूत्सुकायते । राज्यदानप्रसादेनाऽप्रसादं मा कृथास्ततः ॥ ६११ ॥ 20 चक्रवर्त्यप्युवाचैवं, युक्तमसत्कुले व्रतम् । ततोऽपि किन्त्वभ्यधिकं, गुर्वाज्ञापालनव्रतम् ॥ ६१२ ॥
गृह्णीयाः समये मद्वत् , परिव्रज्या महाशय ! । खापत्ये कवचहरे, निदधीथाश्च मेदिनीम् ॥ ६१३ ॥ श्रुत्वा भगीरथोऽप्येवं, गुर्वाज्ञाभङ्गकातरः । भवभीरुश्च मौन्यस्थाद्, दोलायितमनाविरम् ॥ ६१४ ॥ ततः सिंहासने स्वस्मिन्नुपवेश्य भगीरथम् । राज्येऽभ्यपिश्चत् सगरस्तदैव परया मुदा ॥ ६१५ ॥
तदानीं चक्रिणोऽभ्येत्य, शीघ्रमुद्यानपालकाः । शशंसुः समवसृतं, बाह्योद्यानेऽऽजितप्रभुम् ॥६१६॥ पौत्रराज्याभिषेकेणाऽजितस्वाम्यागमेन च । तदानीं चक्रिणो जज्ञे, हर्षोत्कर्षो यथोत्तरम् ॥ ६१७ ॥ तत्रस्थोऽपि स उत्थाय, नमश्चक्रे जगत्पतिम् । पुरःस्थमिव च शक्रस्तवेनोचैरवन्दत ॥ ६१८ ॥ तेषामुद्यानपालानां, स्वाम्यागमनशंसिनाम् । ददौ चक्री हिरण्यस्य, कोटीरर्धत्रयोदश ॥ ६१९ ॥ समं भगीरथेनाऽथ, सामन्तादिभिरावृतः । ययौ समवसरणं, सगरो गुरुसम्भ्रमः ॥ ६२० ॥
उत्तरद्वारमार्गेण, तत्र च प्रविवेश सः । प्रविष्टमानी हर्षेण, सिद्धिक्षेत्र इवोच्चकैः ॥ ६२१ ॥ 30 तत्र प्रदक्षिणीचक्रे, त्रिश्चक्री धर्मचक्रिणम् । नमस्कृत्य पुरोभूय, स्तोतुं चेति प्रचक्रमे ॥ ६२२ ॥
__ मत्प्रसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः । इत्यन्योऽन्याश्रयं भिन्द्धि, प्रसीद भगवन् ! मयि ॥६२३॥ निरीक्षितुं रूपलक्ष्मी, सहस्राक्षोऽपि न क्षमः । स्वामिन् ! सहस्रजिह्वोऽपि, शक्तो वक्तुं न ते गुणान्॥६२४॥ संशयान् नाथ! हरसेऽनुत्तरस्वर्गिणामपि । अतः परोऽपि किं कोऽपि, गुणः स्तुत्योऽस्ति वस्तुतः ॥ इदं विरुद्धं श्रद्धत्तां, कथमश्रद्दधानकः १ । आनन्दसुखश(स)क्तिश्च, विरक्तिश्च समं त्वयि ॥ ६२६ ॥
कुबेरः। २ अस्पृशत् । ३ संसारः। ४ ग्रहीतुमिच्छति । ५ महाहर्षः। ६ आत्मानं प्रविष्टं मन्यते । ७ अजितस्वामिनम् । मम प्रसन्नतायाः। ९ मम प्रसन्नता। १.इन्द्रोऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org