________________
षष्ठः सर्गः
त्रिषष्टिशलाकापुरुषचरितम् । उद्दिश्य तत्र तं नागकुमारं ज्वलनप्रभम् । तपोऽष्टमं स विदधे, विधिवेदी भगीरथः ॥ ५६० ॥ अष्टमे च परिणमत्युपतस्थे भगीरथम् । पतिर्नागकुमाराणां, प्रसन्नो ज्वलनप्रभः ॥५६१॥ गन्धैधूपैश्च माल्यैश्च, तेनोपचरितो भृशम् । स्वामी नागकुमाराणां, किं करोमीत्यभाषत ॥ ५६२ ॥ अथो भगीरथोऽप्यम्भोधरध्वानगभीरगीः । उवाच विनयेनापि, सप्रभो ज्वलनप्रभम् ॥ ५६३ ॥ अष्टापदाद्रिपरिखामापूर्येयं सरिद्वरा । निरर्गलं प्रसरति, पनगीव बुभुक्षिता ॥ ५६४ ॥ क्षेत्राण्येषा हि खनति, प्रोन्मूलयति पादपान् । सदृशीकुरुते सर्वान् , स्थेपुटानवटा पि ॥ ५६५ ॥ प्रभ्रंशयति वप्रांश्च, प्रासादान दलयत्यलम् । प्रपातयति हाणि, निगृह्णाति गृहाणि च ॥ ५६६ ॥ तां पिशाचीमिवोन्मत्तां, देशविध्वंसकारिणीम् । दण्डेनाऽऽकृष्य पूर्वाब्धौ, क्षिपामि त्वदनुज्ञया ॥५६७॥ ततः प्रसन्नो ज्वलनप्रभनागस्तमभ्यधात् । निजं समीहितं कुर्या, निर्विघ्नं भवतोऽस्त्विति ॥ ५६८ ॥ येऽमुष्मिन् भरतक्षेत्रे, नागास्ते मम शासने । मदनुज्ञाप्रवृत्तः सन् , मा भैषीस्तदुपद्रवात् ॥ ५६९ ॥ 10 अभिधायेति नागेन्द्रः, प्रविवेश रसातलम् । विदधेऽष्टमभक्तान्ते, पारणं च भगीरथः ॥ ५७० ॥ वैरिणीमिव भिन्नक्ष्मां, स्वच्छन्दां स्वैरिणीमिव । मन्दाकिनीमथ क्रष्टुं, दण्डरनं स आददे ॥ ५७१ ॥ मालामङ्कुटकेनेव, दण्डेनाऽऽकर्षति स ताम् । निनदन्तीं नदी चण्डभुजदण्डो भगीरथः ॥ ५७२ ॥ कुरूणां मध्यभागेन, नगरं हस्तिनापुरम् । दक्षिणेन पश्चिमेन, पुनः कोशलनीवृतः॥ ५७३ ॥ उत्तरेण प्रयागं च, कासीनां दक्षिणेन च । विन्ध्यान्तर्दक्षिणेनाङ्गान् , मगधानुत्तरेण च ॥५७४॥13 वात्येव तेण्याः कर्षन्ती, वर्तनीवर्तिनीनदीः। भगीरथेन पूर्वाम्भोनिधिं गङ्गाऽवतारिता ॥ ५७५ ॥ ततः प्रभृति तत् तीर्थ, गङ्गासागर इत्यभूत् । कृष्टा भगीरथेनेति, गङ्गा भागीरथीति च ॥५७६॥ यत्र यत्र वभञ्जाऽहिभवनानि व्रजन्त्यसौ । भगीरथस्तत्र तत्र, नागेभ्यः प्रददौ बलिम् ॥ ५७७ ॥ तेषां सगरपुत्राणां, शरीरास्थीनि तानि च । तेन गङ्गाप्रवाहेण, निन्यिरे पूर्वसागरम् ॥ ५७८॥ दध्यौ भगीरथश्चैवं, साधु जातमिदं यहो! । मत्पितॄणां यदस्थीनि, गङ्गयेयुः पयोनिधिम् ॥ ५७९ ॥ 20. गृध्रादिचञ्चू-चरणविलग्नान्यन्यथा पुनः । पतेयुरशुचिस्थानेष्वनिलोद्भूतपुष्पवत् ॥ ५८०॥ एवं विचिन्तयन् प्रीतैर्जलापातापदुज्झितैः । लोकैलॊकम्पृणोऽसीति, प्रशशंसे चिरं हि सः॥ ५८१ ॥ तदा पितॄणामस्थीनि, तेन क्षिप्तानि यजले । क्षिपत्यद्यापि तल्लोकः, सोऽध्वा यो महदाश्रितः॥ ५८२ ॥ ततः स्थानान्निववृते, रथारूढो भगीरथः । रथप्रचारेण भुवं, रोसयन् कांस्यतालवत् ॥ ५८३ ॥
स आगच्छन्नथ पथि, कल्पद्रुममिव स्थितम् । ददशैंकं भगवन्तं, केवलज्ञानिनं मुनिम् ॥ ५८४ ॥ 25 उदयाद्रेरियाऽऽदित्यो, गरुत्मानम्बरादिव । सानन्दः स्यन्दनवरात् , तसादवततार सः ।। ५८५ ॥ आलोकमात्रे तं नत्वा, भक्त्या केवलिनं मुनिम् । स त्रिः प्रदक्षिणीचके, भक्तिदक्षोऽतिदक्षिणः ॥५८६॥ तं प्रणम्य पुरः स्थित्वा, पप्रच्छैवं भगीरथः । ममाऽम्रियन्त पितरो, युगपत् केन कर्मणा ? ॥ ५८७॥ त्रिकालवेदी भगवान् , करुणारससागरः । एवं गदितुमारेभे, मधुरोगारया गिरा ॥ ५८८ ॥
श्रावकैर्विपुलश्रीकैः, श्रीदश्रीसंश्रितैरिव । पूर्णः सङ्घश्चचालैकस्तीर्थयात्राकृते पुरा ॥ ५८९॥ 30 प्रत्यन्तग्राममेकं तु, सङ्घः सायमवाप सः । निशायां चाऽध्युवासोपकुम्भकारनिकेतनम् ॥ ५९॥ सङ्घ समृद्धं तं दृष्ट्वा, हृष्टो ग्रामजनोऽखिलः । तल्लुण्टनार्थमुत्तस्थे, दण्ड-कोदण्ड-खड्गभृत् ॥ ५९१॥ प्रबोध्य वचनैश्चाटुगभैरमृतसोदरैः । संशूकः कुम्भकारस्तं, ग्रामलोकं न्यवारयत् ॥ ५९२ ॥
, पूजितः। २ स्थपुटान् उच्चप्रदेशान् । ३ अवटान् निम्नप्रदेशान्। ४ मालाकारप्रतिबद्धमणिकरूपाकोटकवत् । ५ तृणसमूहान्। ६ मार्गान्तर्वर्त्तमानाः । ७ नागभवनानि। ८ जलस्य आपातस्तेन या आपत् तदुझितैः। ९ रासक्रीडा कारयन् । १० कुबेरलक्ष्म्याचितैरिव । ११ दयासहितः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org