________________
5
10
15
२४८
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ द्वितीयं पर्व
यौवनश्रीरपि गिरिनदीपूरसहोदरा । जीवितं च कुशाग्रस्थजलविन्दु विडम्बकम् || ५२७ ॥ न यावद् यौवनं याति, वारीव मरुभूमिगम् । न यावदायाति जरा, राक्षसीवायुरन्तकृत् ॥ ५२८ ॥ भवतीन्द्रियवैकल्यं, न यावत् सन्निपातवत् । वेश्येवोपात्तसर्वस्खा, यावच्छ्रीर्न विरज्यति ॥ ५२९ ॥ छलयित्वा तावदमून्यखिलान्यपि हि स्वयम् । प्रव्रज्योपायलभ्याय, स्वार्थाय प्रयतामहे ।। ५३० ।। 'काचखण्डेन स मणि, कृष्णकाकेन केकिनम् । मृणालमालया हारं, कदन्नेन च पायसम् ॥ ५३१ ॥ कालैसेयेन च क्षीरं, रासभेन च वाजिनम् । क्रीणाति योऽर्जयेन्मोक्षमसारेणेह वर्मणा ॥ ५३२॥ युग्मम् ॥ एवमाभाषमाणस्य, तदा सगरचक्रिणः । द्वार्याययुर्विषयिणोऽष्टापदाभ्यर्णवासिनः ॥ ५३३ ॥ अस्मांस्त्रायख त्रायस्वेत्युच्चैः पूत्कारकारिणः । आजूहवत् तान् सगरचक्रभृद् वेत्रपाणिना ।। ५३४ ॥ हो ! किमिदमित्युच्चैर्भाषिताश्चक्रवर्तिना । कृतप्रणामाः सम्भूय, ग्रामीणास्ते व्यजिज्ञपन् ॥ ५३५ ॥ अष्टापदाद्रिपरिखापूरणाय सरिद्वरा । या कृष्टा दण्डरत्नेन, कुमारैस्तैर्नरेश्वर ! ॥ ५३६ ॥ पातालमिव दुष्पूरां, पूरयित्वा क्षणेन ताम् । साऽतिक्रामत्युभे कूले, कुलदेव कुलद्वयम् ॥। ५३७ ॥ अष्टापदाभ्यर्णवर्ति, ग्रामाऽऽकर- पुरादिकम् । आप्लावयितुमारब्धा, पर्यस्त इव सागरः ।। ५३८ ॥ अधुनाऽपि युगान्तोऽयमस्माकं समुपस्थितः । तदादिश वयं कुत्र, तिष्ठामो निरुपद्रवाः १ ।। ५३९ ।।
ततश्च सगरवक्री, निजं पौत्रं भगीरथम् । वात्सल्यसारया वाचा, समाहूयेदमादिशत् ।। ५४० ॥ पूरयित्वाऽष्टापदाद्रिपरिखां तां सरिद्वरा । उन्मत्तेव भ्रमन्त्यस्ति, सा ग्रामादिषु सम्प्रति ।। ५४१ ॥ तां दण्डेन समाकृष्य, क्षिप पूर्वपयोनिधौ । अदर्शितपथं याति, पयो ह्यन्धवदुत्पथे ॥ ५४२ ॥ बाहुवीर्यम सामान्य मैश्वर्यं भुवनोत्तरम् । अत्युल्बणं हस्तिबलमश्वीयं विश्वविश्रुतम् ॥ ५४३ ॥ पादतमतिविक्रान्तं महद् रथवलं तथा । अत्युत्कटः प्रतापश्च निःसीमं शस्त्रकौशलम् ॥ ५४४ ॥ दैवतानामायुधानां, सम्पत्तिश्चेत्यमून्यलम् । दर्पं यथा द्विषां घ्नन्ति, जनयन्त्यात्मनस्तथा ॥ ५४५ ॥ ॥ त्रिभिर्विशेषकम् ॥
अग्रणीः सर्वदोषाणामापदामेकमास्पदम् । सम्पदामपहर्तेकः कर्ता दुर्यशसामपि ॥ ५४६ ॥ अपि वंशस्य संहर्ता, हर्ता निखिलशर्मणाम् । प्रहर्ता परलोकस्य, दर्पो वैरी शरीरजः || ५४७ ॥ युग्मम् || तद् दर्पः परिहर्तव्यः सर्पवत् सत्पथस्थितैः । सामान्यैरपि पुरुषैर्मत्पौत्रेण विशेषतः ।। ५४८ ॥ यथापात्रं विनीतेन, भवितव्यं ततस्त्वया । गुणप्रकर्षो विनयादशक्तस्याऽपि जायते ॥ ५४९ ॥ 25 शक्तस्य पुंसो विनयः, सुवर्णस्येव सौरभम् । निष्कलङ्क पुष्टेव, पार्वणस्य हिमद्युतेः ॥ ५५० ॥
20
सुराणामसुराणां च नागादीनामपि त्वया । उपचारो यथाक्षेत्रं, कार्यः कार्ये सुखेऽपि हि ।। ५५१ ॥ उपचारार्हणीयेषु, नोपचारो हि दोषकृत् । अपचारस्तु दोषाय, पित्तात्मन इवाऽऽतपः ॥ ५५२ ॥ ऋषभस्वामिपुत्रेण, भरतेनापि चक्रिणा । वशंवदा देव-दैत्या, उपचारेण चक्रिरे ॥ ५५३ ॥ शक्तेनापि सता तेनोपचारो देवतादिषु । दर्शितो यस्तथा कार्य:, स कुलाचार इत्यपि ॥ ५५४ ॥ 30 तथेति प्रतिपेदे स, महाभागो भगीरथः । निसर्गेण विनीतस्य, शिक्षा सद्भित्तिचित्रवत् ।। ५५५ ।। अर्पयित्वा दण्डरलं, स्वं प्रतापमिवोर्जितम् । चुम्बित्वा मूर्ध्नि सगरो, विससर्ज भगीरथम् ॥ ५५६ ॥ चक्रिणश्चरणाम्भोजे, प्रणम्याऽथ भगीरथः । सदण्डरत्नो निरगात्, सविद्युदिव वारिद: ।। ५५७ ॥ महता चक्रिसैन्येन, वृतो जानपदैश्च तैः । रेजे भगीरथः शक्र, इवाऽनीकप्रकीर्णकैः ॥ ५५८ ॥ आससाद क्रमेणाथाष्टापदाद्रिं भगीरथः । मन्दाकिन्या वलयितं, त्रिकूटाद्रिमिवाऽन्धिना ॥ ५५९ ॥
1
७
१ उपात्तं गृहीतं सर्वस्वं यया सा । २ मयूरम् । ३ तक्रेण । ४ शरीरेण । ५ जनपदवासिनो जनाः । ६ अश्वसैन्यम् । पदातिसैन्यम् । ८ निष्कलङ्कशरीरता इव । ९ पित्तप्रकृतेर्जनस्य ।
१० मङ्गचक्रे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org