________________
षष्ठः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
२४७ बाहु-पाद-शिरो-रुण्डं चाऽपतन्नभसः क्रमात् । मत्पतेरिदमित्युच्चैस्त्वत्पत्यकथयच्च नः ॥ ४९४ ॥ पत्युरङ्गैः समं वह्नौ, प्रवेक्ष्यामीति भाषिणीम् । अवारयाम सुचिरं, पुत्रीप्रेम्णा तव प्रियाम् ॥ ४९५ ॥ वह्निप्रवेशादमाभिर्वार्यमाणा तु ते प्रिया । अस्मान् सम्भावयामासाऽन्यथैवेतरलोकवत् ॥ ४९६ ॥ तूष्णीकेषु ततोऽस्मासु, सा साहसवती नदीम् । गत्वा लोकसमक्षं तैः, सहाऽङ्गैः प्राविशच्चिताम् ॥ ४९७ ॥ अधुनैव निवापादि, तस्याः कृत्वाऽहमागमम् । तस्याः शोके न्यषीदं च, त्वं चाऽगाः किमिदं ननु ?॥४९८॥ 5 तान्यङ्गानि न किं ते वा ?, स वा त्वं नेति संशयः । अज्ञानमुद्रितमुखाः, किमिह ब्रूमहे वयम् ? ॥४९९॥
व्याजहार कृतव्याजकोपः सोऽपि पुमानिति । परस्त्रीसोदरो मिथ्या, जनश्रुत्या श्रुतोऽसि हा॥५००॥ तेन नाम्ना वयं भ्रान्ताः, प्रियान्यासमकृष्महि । अयोवेत पुष्करैतिस्त्वं वृत्तैरीदृशैरसि ॥५०१॥ दुराचारस्य यत् कृत्यं, तस्य मद्विषतोऽभवत् । तच्चके भवता राजन् !, द्वयोर्हन्त ! किमन्तरम् १ ॥५०२॥ नारीष्वलुब्धमन्यश्चेदपवादाद् विभेषि वा । तदर्पय प्रियां तां मे, न हि निह्नोतुमर्हसि ॥ ५०३॥ 10 अलुब्धपूर्वा लुभ्यन्ति, यद्येवं त्वादृशा अपि । ततः कृष्णोरग इव, कोऽस्तु विश्वासभाजनम् ? ॥५०४ ॥
भूयो बभाषे भूपालस्तवाङ्गान्युपलक्ष्य सा । त्वत्प्रेयस्यविशद् वह्निमत्र तावन्न संशयः ॥ ५०५॥ अत्राऽर्थे साक्षिणः सर्वे, पौरा जानपदा अपि । जगच्चक्षुरयं व्योम्नि, भगवांश्च दिवाकरः ॥ ५०६ ॥ लोकपालाश्च चत्वारो, ग्रह-नक्षत्र-तारकाः । इयं च भगवत्युर्वी, धर्मश्च त्रिजगत्पिता ॥ ५०७ ॥ तन्न भाषितुमीदृक्षं, रूक्षाक्षरमिहाऽर्हसि । अमीषां मध्यतः कश्चित् , प्रमाणीकुरु साक्षिणम् ॥ ५०८॥ 15 ___ अलीकरोषपरुषं, पुरुषः सोऽवदत् पुनः । न हि प्रमाणे प्रत्यक्षे, प्रमाणान्तरकल्पना ॥ ५०९ ।। तव पश्चादियं का नु, स्थिताऽस्ति ? प्रेक्ष्यतां ननु । कक्षाप्रक्षिप्तलोख्रस्य, कोशपानमिदं नृप! ॥ ५१०॥ ततश्च वलितग्रीवो, यावत् पश्चाददौ दृशम् । ईक्षाञ्चके नृपस्तावत् , तत्प्रियां तां निषेदुषीम् ॥ ५११ ॥ पारदारिकदोषेण, दूषितोऽसीति शङ्कया । ग्लानिं प्रपेदे नृपतिर्लानिं तापेन पुष्पवत् ॥ ५१२ ।। नृपं ग्लानिं प्रपेदानं, निर्दोषं दोषशङ्कया । बद्धाञ्जलिः कथयितुं, पारेभे स पुमानिति ॥ ५१३ ॥ 20
कचित् स्मरसि भूनाथ!, चिरेणाभ्यस्य यन्मया । मायाप्रयोगचातुर्य, त्वं दर्शयितुमर्थितः ? ॥५१४॥ देवेन मेघवद् विश्वसाधारण्यजुषाऽप्यहम् । भाग्यदोषादपूर्णेच्छो, द्वारादपि निवारितः ॥ ५१५ ॥ ततो रूपं परावर्त्य, कृत्वा कपटनाटकम् । मयेदं दर्शितं देव!, कृतार्थोऽसि प्रसीद मे ॥५१६ ॥ यथा तथा वा महतां, दर्शनीयो निजो गुणः । गुणार्जनभवः केशः, प्रणश्यत्यन्यथा कथम ॥५१७॥ तदद्यामि गतक्लेशो, ब्रजिष्यामि समादिश । सर्वत्राऽपि महा! सि, त्वदग्रे गुणदर्शनात् ॥ ५१८ ॥ 25 कृतार्थीकृत्य भूयिष्ठैरथुस्तमवनीपतिः। विससर्ज ततः किश्चिचिन्तयित्वेदमब्रवीत् ॥ ५१९ ॥ ___ यादृग् मायाप्रयोगोऽस्य, संसारोऽप्येष तादृशः । दृष्टनष्टं वस्तु सर्वमस्मिन् बुद्धदवद् यतः ॥५२०॥ चिन्तयित्वा नैकधैवं, विरक्तो भववासतः । उत्सृज्य राज्यं प्रव्रज्यां, स जग्राह ततो नृपः ॥ ५२१॥
मायाप्रयोगसदृशे, संसारेऽसिंस्ततः प्रभो! । मा शोकविवशो भूस्त्वं, यतख स्वार्थसिद्धये ॥ ५२२ ॥ चक्रिणो भवनिर्वेदः, पदे शोकस्य तावतः । महाप्राण इव महाप्राणस्थानेऽभवत्'ततः ॥ ५२३ ॥ 30
उदाजहार सगरो, गिरं तत्त्वगरीयसीम् । युष्माभिरभ्यधायीदं, साधु साधु विवेकिनः! ॥ ५२४ ॥ जीवन्ति च म्रियन्ते च, जन्तवः स्वस्वकर्मणा । बालो युवा वा वृद्धो वेत्यप्रमाणं वयः खलु ॥ ५२५ ॥ सङ्गमा बान्धवादीनां, स्वमसब्रह्मचारिणः । लक्ष्मीनिसर्गतो दन्तिकर्णतालचलाचला ॥ ५२६ ॥
*सक ३ विनाऽन्यत्र-रुण्डश्चाऽप सङ्घ सङ्घ २ संता० । रुण्डाश्चाऽप° ढं०॥ +त्पत्यकथयत ततः सङ्घ । 'त्पत्नी नः शशंस च ८० ॥' १ विहितकपटक्रोधः। २ लोहवत् । ३ कृत्रिमकोपकठोरम् । ४ लोत्रम् सेयधनम्। ५मूल्यवान् । ६ स्वमसदृशाः। ७ चला।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org