________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ द्वितीय पर्व
आजहुश्चन्दनैधांसि, तत्राऽऽयुक्ताः क्षणादपि । चितां च रचयाश्ञ्चकुस्तल्पं पितृपतेरिव ॥ ४६१ ॥ पित्रेव पृथिवीशेन, तेन सम्पूरितं वसु । याचकेभ्यो यथाकामं, ददौ कल्पलतेव सा ।। ४६२ ॥ पयःपूर्णाञ्जलिपुटा, तत्र त्रिः साऽऽशुशुक्षणिम् । चक्रे प्रदक्षिणं जातदक्षिणावर्त्तरोचिषम् ॥ ४६३ ॥ सतीत्यापनां कृत्वा, पत्युरङ्गैः सहैव तैः । वासागार इव स्वैरं चितान्तः प्रविवेश सा ॥ ४६४ ॥ 5 प्राज्याभिराज्यधाराभिराहुतोऽथ हुताशनः । जज्वालाऽभ्यधिकं ज्वालाजालपल्लविताम्बरः ।। ४६५ ॥ तानि विद्याधराङ्गानि सा चैधांसि च तत्क्षणम् । अभवद् भस्मसात् सर्व, जलं लवणसीदिव ॥ ४६६ ॥ तत्र तस्या निवापादि, कृत्वा शोकसमाकुलः । आजगाम निजं धाम, ततः स जगतीपतिः ।। ४६७ ॥ यावत् सशोकः परिषद्यासाञ्चक्रे महीपतिः । आययौ स पुमांस्तावन्नभस्तः फलका- सिभृत् ॥ ४६८ ॥ भूभुजा पारिषद्यैश्व, वीक्ष्यमाणः सविस्मयम् । मायाविद्याधरः सोऽथ पुरोभूयेदमब्रवीत् ॥ ४६९ ॥
दिष्ट्या प्रवर्द्धसे देव !, परस्त्री - धननिःस्पृह ! । दुरोदर इव द्वन्द्वे, यथाऽजैषं तथा शृणु ॥ ४७० ॥ तदा ह्यहमितः स्थानाच्छरण्य ! शरणे तव । विमुच्य दारान् निर्भर, इवोदपतमम्वरे ॥ ४७१ ॥ समापतन्तं साटोपं, तमपश्यं नभस्तले । दुष्टविद्याधरमहं, रुष्टो बभ्रुरिवोरगम् ॥ ४७२ ॥ ऋषभाविव गर्जन्तावर्जितं दुर्जयावुभौ । अहं च स च युद्धार्थमाह्वाखहि परस्परम् ॥ ४७३ ॥ दिया दृष्टोऽसि दो !, प्रहर प्रहरादितः । कौतुकं पूरयाम्यद्य, स्वदोष्णोर्युसदामपि ॥ ४७४ ॥ 15 नो वा शस्त्रं परित्यज्याssदाय दन्तैर्दशाङ्गुलीः । भक्ष्यं रङ्क इवाऽशङ्को, व्रज जीवितकाम्यया ।। ४७५ ।। साक्षेपमिति जल्पन्तौ द्वावप्यावां परस्परम् । चर्मा - सिपक्षौ धुन्वन्तौ, मिलितौ कुक्कुटाविव ॥ ४७६ ॥ ॥ त्रिभिर्विशेषकम् ॥ चारी- प्रचारचतुरौ, रङ्गाचार्याविवाम्बरे । प्रहारान् वञ्चयमानौ, व्यचराव चिरं नृप ! ॥ ४७७ ॥ आवाभ्यां खड्गशृङ्गेण, प्रहरद्धयां मुहुर्मुहुः । खड्गिभ्यामिव विहिते, अभिसर्पा-पसर्पणे ॥ ४७८ ॥ 20 क्षणेनाऽपि मया तस्य, दोर्दण्डो दक्षिणेतरः । निकृत्य पातितो राजन्!, प्रवर्धक इवेह ते ॥ ४७९ ।। युष्मदानन्दहेतोश्च कदलीस्तम्भलीलया । मया निकृत्य तस्यैकश्चरणः पातितो भुवि ॥ ४८० ॥ दक्षिणोऽपि भुजस्तस्य, नलिनीनाललीलया । विलूय क्षितिपृष्ठेऽस्मिन् क्षिप्तः क्षितिपते ! मया ।। ४८१ ।। ततो द्वितीयस्तस्याङ्घ्रिरङ्घ्रिपस्य प्रकाण्डवत् । खड्गदण्डेन निष्कृत्य, तवाग्रे परिपातितः ॥ ४८२ ॥ ततो रुण्डश्च मुण्डश्च पृथक् कृत्वेह पातितः । तमित्यकार्ष षट्खण्ड, रिपुं भरतवर्षवत् ॥ ४८३ ॥ 25 कलत्रं त्रायमाणेन, न्यासीभूतमपत्यवत् । त्वयैव सोऽरिर्निहतो, हेतुमात्रमहं त्विह । ४८४ ॥
10
२४६
त्वत्साहाय्यं विना सोऽरिर्न हन्तुं शक्यते मया । नाडलं दग्धुं कक्षमग्निर्विना वायुं ज्वलन्नपि ।। ४८५ ॥ इयत्कालमहं स्त्री वाऽथवाऽभूवं नपुंसकः । पुंस्त्वं मेऽद्य त्वया दत्तं द्विषन्निग्रहहेतुना ॥ ४८६ ॥ ममाऽसि माता तातो वा गुरुर्वा देवताऽथवा । एवंविधोपकारी हि, नाऽन्यो भवितुमर्हति ॥ ४८७ ॥ द्योतनो द्योतयते, विश्वं प्रीणाति चोहुँपः । काले वर्षति पर्जन्यः, प्रसूते भूमिरोषधीः ॥ ४८८ ॥ 30 मर्यादां लङ्घते नाsब्धिर्मेदिनी चाऽवतिष्ठते । परोपकारनिष्ठानां, प्रभावेण भवादृशाम् ॥ ४८९ ॥ न्यासीकृतं कलत्रं मे, तत् सम्प्रति समर्पय । महीनाथ ! गमिष्यामि, स्वां क्रीडाभूमिकामहम् ॥ ४९० ॥ वैताढ्य - जगतीजाल कटकादिषु सप्रियः । विहरिष्ये निराशङ्कस्त्वत्प्रसादाद्धतद्विषन् ॥ ४९१ ॥
आक्रान्तो युगपल्लज्जा-चिन्ता- निर्वेद - विस्मयैः । एवं वसुमतीनाथः, पुरुषं तमभाषत ॥ ४९२ ॥ न्यासीकृत्य कलत्रं स्वं तदानीं त्वयि जग्मुषि । अम्बरे शुश्रुवेऽस्माभिः, क्ष्वेडा ऽसि - फलकध्वनिः ॥४९३॥
१ शय्याम् । २ यमस्य । ३ अग्निम् । ४ सतीत्वसत्यतां समर्थ्यं । ५ घृतधाराभिः । ६ लवणाधीनम् । ७ धृते । ८ नकुलः । ९ गण्डकाभ्याम् । १० अभिगमनं दूरगमनं च । ११ वृक्षस्य । १२ सूर्यः ।
१३ चन्द्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org