SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः] त्रिषष्टिसलाकापुरुषचरितम् । चितान्तश्चक्रिरे देवा, अग्निमग्निकुमारकाः। झगित्यज्वालयंस्ते च, देवा वायुकुमारकाः ॥ ६९४ ॥ शक्रादेशेन कर्पूर-कस्तूरी रशोऽमराः । सर्पिष्कुम्भांश्च शतशश्चितान्तः परिचिक्षिपुः ॥ ६९५ ॥ विमुच्याऽस्थीनि दग्धेषु, स्वामिनोऽन्येषु धातुषु । व्यध्यापयश्चितावति, देवा मेघकुमारकाः ॥६९६ ॥ शक्रेशानौ खामिदंष्ट्र, दक्षिण-दक्षिणेतरे । ऊर्द्धस्थे चमर-बली, त्वगृह्णीतामधःस्थिते ॥ ६९७ ॥ अपरानपरे विन्द्रा, दशनान् जगृहुः प्रभोः । विभज्य भक्तितस्त्वन्ये, कीकसानि दिवौकसः ॥ ६९८ ॥ 5 यत् किञ्चिदन्यदपि तत्र विधेयमासीत्, सर्व विधाय विधिवद् विबुधाधिपास्तत् । नन्दीश्वरं समधिगम्य च शाश्वतार्हदष्टाह्निकां विदधिरे महतोत्सवेन ॥ ६९९ ॥ जग्मुस्ततो निजनिजं सदनं सुरेन्द्रा, मध्येसुधर्ममथ माणवकाभिधेषु ।। स्तम्भेषु वज्रमयवृत्तसमुद्रकान्तर्विन्यस्य ताश्च दधिरे जिननाथदंष्ट्राः ॥ ७००॥ ताः पूजयन्ति सततं वरगन्धधूपैर्माल्यैश्च शाश्वतजिनप्रतिमावदिन्द्राः । अव्याहतं तदनुभाववशेन तेषां, सञ्जायते विजयमङ्गलमद्वितीयम् ॥ ७०१॥ सगरनृपचरित्रेणान्तरस्थेन कामं, सर इव रसपूर्ण पद्मखण्डेन हृद्यम् । चरितमजितनाथस्यैहिकामुष्मिकाणि, प्रवितरतु सुखानि श्रोत्सामाजिकानाम् ॥ ७०२ ॥ 10 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि अजितखामि-सगरदीक्षा-निर्वाणवर्णनो नाम षष्ठः सर्गः ॥ 15 ॥ समाप्तं चेदमजितस्वामि-सगरचक्रवर्तिप्रतिबद्धं द्वितीयं पर्वेति ।। घृतकुम्भान्। २त्वचादिषु। ३ निरवापयन् । ४ अस्थीनि। ५करणीयम् । ६ वज्रनिर्मितवृत्ताकारमअषायाम्। त्रिषष्टि.३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001456
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 2 3 4
Original Sutra AuthorHemchandracharya
AuthorPunyavijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1990
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy