________________
तस्यैव शासने स्थातुं न्याय्यं यद्यस्ति चेतना ।।२।। वीतराग. सर्वे सर्वात्मनाऽन्येषु दोषास्त्वयि पुनर्गुणा: ।।११, ८ ।।
त्वां प्रपद्यामहे नाथं त्वां स्तुमस्त्वामुपास्महे ।
त्वत्तो हि न परस्त्राता किं ब्रूमः किमु कुर्महे ।।६, ५ ।। २. अध्यर्ध . अव्यापारितसाधुस्त्वं त्वमकारणवत्सलः ।
असंस्तुतसखश्च त्वं त्वमसम्बन्धबान्धवः ।।११।। वीतराग. अनाहूतसहायस्त्वं त्वमकारणवत्सलः ।
अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥ १३, १।। ३. अध्यर्ध. उपशान्तं च कान्तं च दीप्तमप्रतिघाति च ।
निभृतं चोर्जितं चेदं रूपं कमिव नाक्षिपेत् ।। ५२ ।। वीतराग. प्रियङस्फटिकस्वर्णपद्मरागाञ्जनप्रभः ।
प्रभो तवाऽधौतशुचिः कायः कमिव नाक्षिपेत् ।। २, १।। ४. अध्यर्ध. परार्थैकान्तकल्याणी कामं स्वाश्रयनिष्ठुरा।
त्वय्येव केवलं नाथ ! करुणाऽकरुणाऽभवत् ।। ६४ ।। वीतराग. हिंसका अप्युपकृता आश्रिता अप्युपेक्षिताः ।
इदं चित्रं चरित्रं ते के वा पर्यनुयुञ्जताम् ।।१४, ६ ।। ५. अध्यर्ध. नोपकारपरेऽप्येव-मुपकारपरो जनः ।
अपकारपरेऽपि त्व-मुपकारपरो यथा ।।११९ ।। वीतराग. तथा परे न रज्यन्त उपकारपरे परे ।
यथाऽपकारिणि भवा-नहो सर्वमलौकिकम् ।। १४, ५ ।। ६. अध्यर्ध. अहो स्थितिरहो वृत्तमहो रूपमहो गुणाः ।
न नाम बुद्धधर्माणा-मस्ति किञ्चिदनद्भुतम् ।। १०७ ।। वीतराग. शमोऽद्भुतोऽद्भुतं रूपं सर्वात्मसु कृपाऽद्भुता ।
सर्वाऽद्भुतनिधीशाय तुभ्यं भगवते नमः ।।१०, ८ ।। ७. अध्यर्ध. येन केनचिदेवं त्वं यत्र तत्र यथा तथा।।
चोदितः स्वां प्रतिपदं कल्याणी नाऽतिवर्तसे ।। ११८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org