________________
82
Book I. THE ESTRANGING OF FRIENDS: Tale xiv: Lion and wheelwright.
Frame-story.
गच्छामि । अथ ताभ्याम् अत्यादरेण पृष्टेन सिंहेनोक्तम् । अस्मिन् वने ऽस्मत्सखा प्रतिदिनम् आगच्छति । तस्य च जाया महाभक्ष्यविशेषान संपादयति । तान अहं प्रीतिपूर्वकम उपभुञ्ज। ततस : ताभ्याम उच्यते । तत्र गत्वा रथकारं व्यापाद्य तदीयशोणितमांसेन प्रभूतकालम आत्मपुष्टिं करियावः। तच् च श्रुत्वा सिंहो ऽब्रवीत्। अहो । मया तस्याभयं प्रदत्तम् । कथं मनसापि तस्योपरीदशम् । अशोभनं चिन्यते । किं तु भवतीर् अपि विशिष्टं भक्ष्यविशेषं तस्मात् संपादयिष्यामि। तथैव ताभ्यां प्रतिपन्नम्। ततो रथकारस्य सकाशं ने गन्तुम आरब्धाः। अथ दूराद् एव रथकारः सिंहं दुष्ट परि." वारसमेतं दृष्ट्वा चिन्तितवान । न शोभनम आपतितं मम । इति त्वरिततरं सकलत्रो वनस्पतिम् आरूढः। अथागत्य सिंहो ऽब्रवीत्। भद्र । किंनिमितं माम आयातं दृष्ट्वा वनस्पतिम् आरूढः । स 12 एवाहं तव सुहृद् विमलो नाम सिंहः।मा भैषीः । इति। तत्रस्थेन रथकारणोच्यते । येन ते जम्बुकः पार्था । इत्यादि ॥
aupa
अतोऽहं ब्रवीमि । तुद्रपरिवारो राजा न शिवायूाश्रितानाम् । कथिते चाख्यानके पुनर् 15 अपि संजीवक आह । सो ऽयं केनापि ममोपरि पिङ्गलको विप्रकृतः । अपि च।
मृदुना सलिलेन खन्यमानान्य
अवपुष्यन्ति गिरेर अपि स्थलानि । उपजापविदां च कर्णजापैः
किम् उ चेतांसि मृदूनि मानवानाम् ॥३१० ॥ सद एवं गते किम् अधुना प्राप्तकालम् । अथवा किम् अन्यद युद्धात् । उक्तं च ।
यान यज्ञसंघेस् तपसा च लोकान वगैषिणो दानचयैश च यान्ति । प्राणांश च युद्धेषु परित्यजन्तः क्षणेन तान् एव हि यान्ति शूराः ॥३११॥
upa तथा च। मृतः प्राप्स्यति वा स्वर्ग । शत्रूत्र जित्वापि वा मुखम् ।
उभाव अपि हि शूराणां । गुणाव एती सुखावही ॥३१२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org