________________
UR. TIIE LION AND THE BULL. Book I.
Tale xiv: Lion and wheelwright.
॥ कथा १४॥ अस्ति कस्मिंश्चिन नगरे रथकारो देवगुप्तो नाम । स चाजस्रं पथ्यदनं गृहीत्वा सभार्यो ऽरण्ये महाञ्जनस्तम्भाञ् छिनत्ति । अथ 3 तत्र वने विमलो नाम सिंहः प्रतिवसति स्म । तस्यानुचरौ द्वौ पिशिताशनी गोमायुवायसौ। अथ कदाचित् सिंह एकाकी वने परिभ्रमंस तं रथकारम् अपश्यत् । रथकारो ऽपि तम अतिभ- ७ यानकं सिंहं दृष्ट्वा गतासुम इवात्मानं मन्यमानः प्रत्युत्पन्नमतितया वा । वलवदुपसर्पणम् एव श्रेयः । इति तदभिमुखं गत्वा प्रणम्य प्रोवाच । एस् एहि । सखे । अद्य मदीयम एव भक्ष्यं । त्वया भक्षयितव्यं तव भ्रातृजाययोपनीतम् । इति । तेन चाभिहितम्। भद्र । न ममान्नेन प्राणयात्रा भवति । यतः पिशिताशनो ऽहम। परं तथापि त्वदीयप्रीत्या किंचिद् आस्वादयामि । कीदृशो ऽयं 12 भट्यविशेष इति । एवम उक्तवति सिंहे रथकारेण संखण्डघृतंद्राक्षाचतुर्जातकवासितलड्डुकांशोकवतिखाद्यकप्रभृतिभिर् विविधभक्ष्यविशेषैः सिंहम तर्पितः । सिंहेनापि कृतज्ञतया तस्याभयं 15 प्रदतम् । वने ऽ स्खलितप्रचारः कृतः । ततो रथकारो ऽब्रवीत् । वयस्य । त्वया प्रत्यहम अत्रागन्तव्यम् । परम एकाकिनैव । न कश्चिद अन्यो ममान्तिकम् आनेतव्यः । एवं च तयोः प्रीतिपूर्वकं 18 कालो ऽतिवर्तते । एवं च प्रतिदिनं तथाविधविविधाहारविहितसौहित्यः सिंहो ऽपि न मृगयाविहारं चकार । अथ परभाग्योपजीवितया शुधा वाध्यमानाभ्यां गोमायुवायसाभ्यां सिंहो विज्ञप्तः । 21 स्वामिन । क्व भवान प्रत्यहं गच्छति । गत्वा च प्रीतमनाः प्रत्यागच्छति । इत्य् आवयोः कथय । सो ऽब्रवीत् । न क्वचिद् अहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org