SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Book I. THE ESTRANGING OF FRIENDS ; Frame story. • तच्छ्रुत्वा विकटकश चिन्तयाम् आस । एतैस् तावच् छोभावचनान्य् अभिहितानि न चैको ऽपि स्वामिना विनाशितः । नद अहम् अपि प्राप्तकालं विज्ञपयामि । येन ममापि वचनम् एते त्रयो ऽपि विघटयन्ति । इति निश्चित्य प्रोवाच । भोः । युक्तम् उक्तं भवता । परं भवान् अपि * नखायुधः । तत् कथं स्वामी भवन्तं भष्टायति । उक्तं च । यतः । Tale xiii: Llon's retainers outwit camel. Jain Education International 80 1 मनसापि स्वजात्यानां । यो ऽनिष्टानि विचिन्तयेत् । तस्य लोकइयं नास्ति भवेच् चाशुचिकीटकः ॥३०७॥ नट अपसराग्रतः । येनाहं स्वामिनं विज्ञपयामि । तथानुष्ठिते विकटकः पुरः स्थित्वा प्रणम्योवाच । स्वामिन् । एते तावद् अभक्ष्या भवताम् । तन् मम प्राणैः प्राणयाचा विधीयताम् येन ममोभयलोकप्राप्तिर् भवति । उक्तं च । न यज्वानो ऽपि गच्छन्ति । तां गतिं नैव योगिनः । स्वाम्यर्थे प्रोज्झितप्राणा यां गतिं यान्ति सेवकाः ॥ ३०८ ॥ एवम् अभिहिते सिंहानुज्ञातचित्रकशृगालाभ्यां विदारितकुक्षिः 15 काकेन चोत्पाटितनयनो विकटकः प्राणांस तत्याज । तैश च शुङ्गारपीडितैः सर्वैर अपि भक्षितः ॥ 6 For Private & Personal Use Only 9 अतो ऽहं ब्रवीमि । बहवः पण्डिताः चुद्राः । इति । आख्याते चाख्यानके पुनर् दमनकं 18 संजीवको ऽब्रवीत् । भद्र । क्षुद्रपरिवारो ऽयं राजा न शिवायाश्रितानाम् । वरं गृध्रो ऽपि राजा हंसपरिवारः । न हंसो ऽपि राजा गृध्रपरिवारः । इति । यतो गृध्रपरिवाराद् fध स्वामिनो बहवो दोषाः प्रादुर्भवन्ति । ते चालं विनाशाय । तस्मात् तयोः पूर्वम् एव 21 राजानं लिप्सेत । असद्वचनप्रचारितस् तु राजा विचाराक्षमो भवति । श्रूयते चैतत् । येन ते जम्बुकः पार्श्वे । तीक्ष्णतुण्डश् च वायसः । तेनाहं वृक्षम् आरूढः । परिवारो न शोभनः ॥ ३०९ ॥ दमनक आह । कथम् एतत् । संजीवकः कथयति । 12 24 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy