SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ 79 OR, THE LION AND THE BULL. Book I. Talexiii: Lion's retainers outwit cannel. स्वामिनः प्राणयात्रापि तावन न भवति । अपरं दोषश च समुत्पद्यते । उक्तं च । यतः । काकमांसं तथोच्छिष्टं । स्तोकं तद् अपि दुर्बलम। भक्षितेनापि किं तेन । येन तृप्तिर् न जायते ॥३०२॥ तद् दर्शिता भवता स्वामिभक्तिः। प्राप्ता लोकवये ऽपि साधुता। तद् अपसर । येनाहम् अपि स्वामिनं विज्ञपयामि । तथानुष्ठिते । शृगालः सादरं प्रणम्य प्रोवाच । स्वामिन । अद्य मम कायेन प्राणधारणां कृत्वा मम लोकदयप्राप्तिं कुरु । उक्तं च । स्वाम्यायत्ता यतः प्राणा । भृत्यानाम अर्जिता धनैः। यतस् तेन न दोषो ऽस्ति । तेषां ग्रहणसंभवे ॥३०॥ तद् आकर्ण्य वीपी प्राह। भोः । साधूतं भवता। परं भवान अपि स्वल्पकायः । स्वजातीयश च *नखायुधत्वाद् अभक्ष्य एव । उक्तं च। 12 नाभक्ष्यं भक्षयेत् प्राज्ञः । प्राणः कण्ठगतैर अपि । विशेषात् तद् अपि स्तोकं । लोकद्वयविनाशि च ॥३०४॥ तद् दर्शितं भवतात्मभृत्यत्वम् । साधु चेदम उच्यते । 15 एतदर्थे कुलीनानां । नृपाः कुर्वन्ति संग्रहम् । आदिमध्यावसानेषु । न ते गच्छन्ति विक्रियाम् ॥३०५॥ तद् अपसरतु भवान् अग्रतः । येनाहम अपि स्वप्रभुं प्रसाद- 15 यामि । तथानुष्ठिते हीपी प्रणम्योवाच । स्वामिन । क्रियताम अद्य मम प्राणैः प्राणयाचा । दीयतां ममाक्षयः स्वर्गवासः । विस्तार्यतां क्षितितले प्रभूतं यशः । तन नात्र विकल्पः कार्यः ।। उक्तं च । स्थितानां स्वामिनः कार्ये । भृत्यानाम अनुवर्तिनाम् । भवेत् स्वर्गे ऽक्षयो वासः । कीर्तिश च धरणीतले ॥३०६॥ 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy