SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Book I. THE ESTRANGING OF FRIENDS; Tale xiii: Lion's retainers outwit camel. 78 upa 6 स्वामिपादानां किंचिद् अनिष्टं भविष्यति । तदास्माभिः पृष्ठतो वहिप्रवेश: कार्यः । उक्तं च। यस्मिन कुले यः पुरुषः प्रधानः सदैव यत्नेन स रक्षणीयः। तस्मिन विनष्टे हि कुलं विनष्टं न नाभिभङ्गे ह्य् अरका वहन्ति ॥२९९॥ तच् छ्रुत्वा मदोत्कटः प्राह । यद्य् एवम् । तत् कुरु । यद् रोचते। इति श्रुत्वा सत्वरं गत्वा तान उवाच । अहो । स्वामिनो महत्य अवस्था वर्तते । नासिकान्तप्राप्तजीवितस् तिष्ठति । तत् तेन विना को ऽस्माकम अव कानने रक्षिता । तद् अस्य क्षुद्रोगात परलोकप्रस्थितस्य स्वयं गत्वा स्वशरीरदानं कुर्मः । येन स्वामिप्रसादस्यानणतां गच्छामः । उक्तं च । आपदं प्राप्नुयात् स्वामी । यस्य भृत्यस्य पश्यतः। प्राणेषु विद्यमानेषु । स भृत्यो नरकं व्रजेत् ॥३००॥ ततस् ते सर्वे बाष्पपूरितदृशो गत्वा मदोत्कटं प्रणम्योपविष्टाः। 15 अथ तान दृष्ट्वा मदोत्कटः प्राह । भो भोः । प्राप्तं दृष्टं वा किम् अपि सत्वम् । अथ काकः प्रोवाच । स्वामिन । वयं तावत् सर्वत्रैव पर्यटिताः । परं न किंचित् सत्वं प्राप्नं दृष्टं वा । तद् अद्य 18 माम एव भक्षयित्वा प्राणान धारयतु स्वामी । येन देवस्याप्यायना । मम पुनः स्वर्गप्राप्तिर् भवति । उक्तं च। स्वाम्यर्थे यस् त्यजेत् प्राणान् । मर्यो भक्तिसमन्वितः। 1 स परं पदम् आप्नोति । जरामरणवर्जितम् ॥३०१॥ तच् छुत्वा शृगालः प्राह । अल्पकायो भवान् । तव भक्षणात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy