________________
or, THE LION AND THE BULL. Book I.
Tale xiii: Lion's retainers outwit camel.
वायसः प्राह । युक्तम उक्तं भवता । परं किं तु स्वामिनाभयप्रदानं दतम् अस्ति । तेनावध्यः स्याद् अयम् । शृगाल आह । युक्तम उक्तम् । स्वामिनं विज्ञप्य यथास्य वधं मन्यते । तथा करिष्यामि । 3 इति । तत् तिष्ठन्तु भवन्तो ऽत्रैव । यावद् अहं गृहं गत्वा स्वामिवचनम् आनयामि । एवम अभिधाय स्वामिनम उद्दिश्य सत्वरं प्रस्थितः । अथ सिंहम आसाद्येदम् आह । स्वामिन् । समस्तम । अपि भ्रान्ता वनं सांप्रतं बुभुक्षाकान्ताः पदम् एकम् अपि चलितुं न शक्ताः । देवो ऽपि पथ्याहारी वर्तते । तद् यदि देवादेशो भवति । तदा विकटपिशितेनाद्य पथ्यक्रिया क्रियते । अथ सिंहस तस्य दारुणवाक्यम आकण्ये सकोपम इदम आह । धिग् धिक पापाधम । यद्य् एवं भूयो वदसि । तत् त्वां तत्क्षणाद् एव हनिष्यामि । यतो मया तस्याभयप्रदानं दतम् । तत् कथं स्वयम् एव 12 व्यापादयामि । उक्तं च।
न गोप्रदानं न महीप्रदान नानप्रदानं हि तथा प्रधानम्। यथा वदन्तीह बुधाः प्रधानं .
सर्वप्रदानेष्व् अभयप्रदानम् ॥२९॥ तच् छुत्वा शृगाल आह । स्वामिन । यद्य् अभयप्रदानं दत्वा 15 वधः क्रियते । तदा ते दोषो भवति । यदि पुनः स देवपादानां स्वयम एव भक्त्यात्मनो जीवितव्यं प्रयच्छति । ततो न दोषः । तद् यदि स्वयम एव स्वं वधाय नियोजयति । तदा वध्यः । 21 अन्यथास्माकं मध्याद् एकतमो भक्षणीयः । याकारणम् । देवः पथ्याहारी वर्तते । शुधानिरोधाद् अन्यादृशों दशां यास्यति । तत् . किम् एतैः प्राणैर् अस्माकम् । ये स्वाम्यर्थे न यास्यन्ति । यदि . .
upa
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org