________________
Book I. THE ESTRANGING OF FRIENDS;
Tale xiit: Lion's retainers ontwit camel.
9
कतिपयैर् एवाहोभिर् बलवान् संवृत्तः । तस्मिंश च वने मदोत्कटो नाम सिंहः प्रतिवसति स्म । तस्यानुचरा डीपिवायसगोमायवः । अथ तैस् तद् वनं भ्रमद्भिर् दृष्टः सार्थवाहपरिभ्रष्टः स उष्ट्रः । तं चाविज्ञानपूर्व * रूपं हास्यजनकं दृष्ट्वा सिंहः पृष्टवान् । इदम् अपूर्व सत्त्वम् इह वने पृच्छ्यताम् । कस् त्वम् असि । ततो saगततत्त्वार्थो वायसो ऽब्रवीत् । उष्ट्रो ऽयं लोके प्रख्यातनामा । ० ततः सिंहेन पृष्टः । भोः । कुतस् त्वम् इह । तेन चात्मनो यथावृत्तवियोगः सार्थवाहात् समाख्यातः । अवगताभ्युपपत्तिना च तस्य सिंहेनाभयं दत्तम् । एवं वर्तमाने कदाचित् सिंहो गजयुद्ध - रदनक्षतशरीरो गुहावासी संवृत्तः । अथ पञ्चवषेषु दिनेष्व् अतिक्रान्तेषु सर्व एव त आहारवैकल्याद् आत्ययिकापदि पतिताः । अथ तान् * सीदतो ऽवलोक्य सिंहो ऽभिहितवान् । अहम् अनया 12 क्षतरुजा न क्षमः पूर्ववद् भवताम् आहारम् उत्पादयितुम् । तद् यूयम् आत्मार्थे तावद् अभ्युद्यमं कुरुध्वम् । इति । ततस् ते प्रोचुः । एवं स्थितेषु देवपादेषु किम् अस्माकं पुष्ट्यर्थेन । इति । सिंह आह । तर्हि । साध्व् अनुजीविवृत्तं भक्तिश च भवताम् । तद् एवमवस्थस्य ममोपानयध्वम् आहारम् इति । ततो यदा न किंचिद् ऊचुस् ते ' तदानेनाभिहिताः । भोः । अलम् अनया 18 व्रीडया | गवेष्यतां किंचित् सत्त्वम् । अहम् एतदवस्थो ऽपि भवताम् आत्मनश चाहारम् उत्पादयिष्ये ।
15
•
अथ ते चत्वारोऽपि भ्रमितुम् आरब्धाः । यावत् सत्त्वं किंचिन् न पश्यन्ति । तावद् वायसशृगालौ मन्त्रयेते । तत्र शृगालो ऽब्रवीत् । भो वायस । किं प्रभूतभ्रमणेन । अयम् अस्माकं प्रभोर् विकटो विश्रब्धस् तिष्ठति । तद् एनं हत्वा प्राण्याचां कुर्मः ।
Jain Education International
76
For Private & Personal Use Only
21
www.jainelibrary.org