________________
75
OR, THE LION AND THE BULL. Book I.
Tale xiii: Lion's retainers outwit camel.
Frame-story.
कालिन्द्याः पुलिनेन्द्रनीलशकलश्यामाम्भसो ऽन्तर्जले ममस्याञ्जनपुञ्जमेचकनिभस्याहेः कुतो ऽन्वेषणम्। ताराभाः फणचक्रवालमणयो न स्युर् यदि द्योतिनो यैर् एवोन्नतिम् आप्नुवन्ति गुणिनस तैर् एव यान्त्य आपदम् ॥२९३॥ ardu नरेन्द्रा भूयिष्ठं गुणवति जने अत्यन्त विमुखाः श्रियः प्रायो लोके व्यसनिषु च मूर्खेषु च रताः । नराणां माहात्म्यं गुणत इति मिथ्या स्तुतिर इयं जनः प्रायेणेवं न हि पुरुषकारं गणयति ॥ २९४॥
sikha सिंहः पञ्जरयन्त्रणापरिभवप्रम्लानदीनाननैर् नागैर अशभिन्नमस्तकपटेर मन्त्रालसैः पन्नगैः। विद्वद्भिश च निराश्रयव्यसनिभिः शूरैश च भाग्यक्षतः कालः क्रीडनकर *वात्मरुचितैः प्रेढोलयन क्रीडति ॥२९५॥ sārdū 12 सरःपद्मं त्यक्त्वा विकसितम् अपायैर् विरहितं मदं नागेन्द्राणाम अभिलषति लोभान् मधुकरः । न मूढस् तत्कर्णव्यजनपरिघातं गणयति
स्वभावात् सर्वोर्थी न हि खलु निदानं विमृशति ॥ २९६॥ sikha तत् सर्वथा मम शुद्रमण्डलान्तः प्रविष्टस्य जीवितं नास्ति । उक्तं च ।
बहवः पण्डिताः जुद्राः। सर्वे मायोपजीविनः।
कुर्युः कृत्यम् अकृत्यं वा । उष्ट्रे काकादयो यथा ॥२९७॥ दमनक आह। कथं चैतत् । सो ऽब्रवीत्।
___॥ कथा १३ ॥ अस्ति कस्मिंश्चिन नगरे वणिक् सागरदतो नाम । स उष्ट्रशतं बहुमूल्यचेलकस्य भृत्वा कस्यांश्चिद् दिशि प्रस्थितः । अथ तस्य विकटनामोष्ट्रो ऽतिभारेण निपीडितो विमस्तसर्वाङ्गो निश्चेष्टः 24 पतितः । ततो वणिक् चेलकभरम अन्येषूष्ट्रेषु विभज्य क्षिप्ता । अरण्यभूमिर् इयं विषमा । अस्मिन् स्थाने न शक्यते स्थातुम् । इति विकटं विहाय प्रस्थितः । तस्मिंश च सार्थवाहे गते विकटः 27 शनैः शनैः संचरज *शष्पं भक्षयितुम् आरब्धः । एवम असौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org