SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 74 Book I. THE ESTRANGING OF FRIENDS ; Frame-story: Lion and bull. CA मया चैतद् अनुभूतम्। यथा। दूराद् उच्छ्रितपाणिर् आर्द्रनयनः संप्रोज्झितार्धासनो गाढालिङ्गनतत्परः प्रियकथाप्रश्नेष्व अखिन्नोत्तरः । अन्तर् गूढविषो बहिर् मधुमयश चातीव मायापटुः को नामायम अपूर्वनाटकविधिर् यं शिक्षितो दुर्जनः ॥२८५॥ sardin आदा अत्युपचारचारविनयालंकारशोभान्वितं मध्ये चापि विचित्रवाक्यकुसुमैर् अभ्यर्चितं निष्फलैः । * पैशुन्याविनयापमानमलिनं बीभत्सम अन्ते च यद् धिक् केनाप्य अकुलीनसंगतम् असद्धर्मार्थम् उत्पादितम् ॥२८६॥ sirdi , तथा च। नमति विधिवत् प्रत्युत्थानं करोत्य् अनुगच्छति प्रथयति दृढां भक्तिं स्नेहात परिष्वजते अधिकम् । वदति मधुरं चित्तग्राहि प्रशंसति सद्गुणान् न हि च कुरुते यत् कर्तव्यं सदैव हि दुर्जनः ॥ २८७ ॥ hari कष्टं भोः कष्टम् । क्वाहं *शष्पभक्षः । क्वायम् आमिषभक्षसिंहसंसर्गः । साधु चेदम् उच्यते । ययोर् एव समं वित्तं । ययोर् एव समं कुलम् । तयोर विवाहः सख्यं च । न तु पुष्टविपुष्टयोः ।। २८८॥ उक्तं च । हुताशज्वालामे स्थितवति रवाव *अस्तशिखरे पिपासुः किञ्जवं प्रविशति सरोजं मधुकरः । तदन्तः संरोधं न गणयति संध्यासमयजं जनो ऽर्थो नापायं विमृशति फलैकान्ततृषितः ॥२८९ ॥ sikha कमलमधुनस् त्यत्का पानं विहाय नवोत्पलं प्रकृतिसुरभि गन्धोदामाम् अपास्य च मालतीम्। जलमधुकराः क्लिश्यन्तीमे कटाम्बुषु दन्तिनां सुलभम् अपहावं लोकः खलेष्व् अनुरज्यते ॥ २९०॥ hari 24 गल्लोपान्ते सुचिरनिभृतं वारि वन्यद्विपानां ये सेवन्ते नवमधुरसास्वादलुब्धा द्विरेफाः । ते तत्कर्णव्यजनपवनप्रेसितैः क्षिप्तदेहा *भूमिं प्राप्ताः कमलविवरक्रीडितानि स्मरन्ति ॥२९१॥ अथवा गुणानाम एवायं दोषः । यतः। स्वफलनिचयो नम्रां शाखां करोति वनस्पतेर गमनम् अलसं बर्हाटोपः करोति शिखण्डिनाम्। चतुरगमनो जात्यो यो ऽश्वः स गौर व वाह्यते गुणवति जने प्रायेणैवं गुणाः खलु वैरिणः ॥ २९२॥ hari 33 mandā Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy