________________
73
OR, THE LION AND THE BULL. Book I. Tale xii Goose and owi.
Frame-story.
तद अवश्यं त्वया मम प्राघूर्ण केनागन्तव्यम् । एवम उक्ता स्वकीयावासं गतः।
अथ कालेन गछता हंसश चिन्तितवान् । तिष्ठन्न अहम 3 इहावासे वृद्धीभूतः । न चान्याम् अहं कांचिद् अपि दिशं जानामि । तद अधुना गच्छामि तस्य प्रियसुहृद उलूकस्य सकाशम। तब मे नवनवं विनोदस्थानं भक्ष्यभोज्यं च भविष्यति । एवं विचिन्योलूकसकाशं गतः । अथ तत्र पद्मवने तं न पश्यति । अतिमुनिपुणम अन्वेषयन यावत् पश्यति । तावद् अमुं दिवान्धं विषमविवरम आश्रितं दृष्ट्वाभिहितवान् । भद्र । एह्य एहि । प्रियमुहत ते हंसो ऽहम उपागतः । इति श्रुत्वा तेनोच्यते । नाहं दिवसचरः । तव मम चास्तं गते रवौ समागमो भविष्यति । इति श्रुत्वा मुचिरं प्रतीक्ष्य राबाव् उलूकेन सह संगतः । स्वकुशल- 12 वार्तादि विधाय मार्गपरिश्रान्तस तत्रैव प्रसुप्तः ।
अथ तस्मिन्न एव सरसि महान वणिजारकसार्थ आवासितः । अथ सार्थपतिः प्रत्यूषकाल उत्थाय प्रयाणशहू दापि- 15 तवान् । अवान्तर उलूको महान्तं विस्वरशब्दं कृत्वा नदीविवरम अनुप्रविष्टः । हंसस् तु तथैव स्थितः । ततश च दुर्निमितचकितंचितसार्थपतिप्रेरितेन केनापि शब्दवेधिना धनुर्धरेण सुदृढं धनुर् 18 । आरोग्याकर्णपूर्ण बाणम आकृष्ण चोलूकनीडनिकटावासी हंसो व्यापादितः ॥
अतोऽहं ब्रवीमि । अकालचर्या विषमा च *गोष्ठी। इत्यादि। पुनः संजीवक आह । अयं 21 तावत् स्वामी पिङ्गलक आदी वाग्मधुरः । परिणामे विषप्रतिमचित्तः। तत् सर्वथा।
परोक्षे गुणहन्तारं । प्रत्यक्षे प्रियवादिनम्। वर्जयेत् तादृशं मित्रं । विषकुम्भं पयोमुखम् ॥२८४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org