________________
Book I. THE ESTRANGING OF FRIENDS;
72 Tale xii: Goose and owl.
Frame-story.
अथवा ममैवायं दोषः । यन् मया कुमित्रसेवा कृता । इति । उक्तं च ।
अकालचर्या विषमा च गोष्ठी कुमित्रसेवा न कदापि कार्या। पश्याण्डजं पद्मवने प्रसुप्तं
धनुर्विमुक्तेन शरेण भिन्नम् ॥ २८०॥ दमनक आह । कथम् एतत् । संजीवकः कथयति ।
upa
॥ कथा १२ ॥ अस्ति कस्मिंश्चिद वनोद्देशे महाप्रमाणं सरः । तत्र च मदरतो नाम हंसः प्रतिवसति स्म । तस्य च तवानेककालं बहुप्रकारं ' क्रीडतः समयो ऽतिवर्तते । अथ कदाचित् तस्यान्तकरो मृत्युर् उलूकरूपेणायातः । तं च दृष्ट्वा हंसो ऽब्रवीत् । कुतस् त्वम् अस्मिन् विजने वने । सो ऽब्रवीत् । तव गुणश्रवणाद् अहम 12 आयातः । अपि च। पर्यटन पृथिवीं सर्वां । गुणान्वेषणतत्परः । गुणेम त्वदधिको नान्यस् । तेनायातस तवान्तिकम् ॥२१॥ 15 वया सह मयावश्यं । सख्यं कार्यम इहादरात् ।
अपवित्रम् अपि प्राप्य । गङ्गां याति पवित्रताम् ॥२२॥ तथा च। हरिहस्तगतः शङ्खः । पवित्रः प्रथितो ऽस्थ्य अपि ।
महानुभावसंसर्गः । कस्य नोन्नतिकारकः ॥२३॥ एवम् उक्तेन हंसेन । तथैव । इति प्रतिपन्नम् । हे सुमित्र । 21 यथेष्टम् उथताम् अस्मिन् महासरसि सुखसेव्ये ऽत्र वने मया समम् । एवं च तयोर् विहरमाणयोः प्रीतिपूर्व कालो ऽतिवर्तते। अथान्यदोलूक आह । यास्याम्य अहम आत्मीयावासं पावनं 24 नाम । यदि मया किंचित् प्रयोजनं ममोपरि च स्नेहानुभावः ।
18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org