SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 71 vamsa OR, THE LION AND THE BULL. Book I. Frane-story: Lion and bull. आगमम् । तद् यद् अनन्तरं करणीयम् । तत् क्रियताम् । इति । तच च तद्वचनं वज्रपातसदृशम् आकर्ण्य संजीवकः परं विषादम अगमत् । सर्वकालश्रद्धेयवचनवाच च दमनकस्य सुतराम आविग्रहृदयः परं भयम् उपपगतः संजीवक आह । साध्व् इदम् उच्यते। दुर्जनगम्या नार्यः । प्रायेणापात्रभृद् भवति राजा। कृपणानुसारि च धनं । देवो गिरिजलधिवर्षी च ॥२७२॥ कष्टं भोः कष्टम् । किम् इदम् आपतितं ममेति । आराध्यमानो नृपतिः प्रयत्नाद् आराध्यते नाम किम् अत्र चित्रम् । अयं त्व् अपूर्वः प्रतिमा विशेषो *यः सेव्यमानो रिपुताम् उपैति ॥२७३ ॥ upa किं च। निमित्तम् उद्दिश्य हि चः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति । अकारणद्वेषि मनो हि यस्य वै कथं नरस तं परितोषयिष्यति ॥२७४॥ अकारणाविष्कृतवैरदारणाद् असज्जनात् कस्य भयं न जायते । विषं महहिर् इव यस्य दुर्वचः *सुदुःसहं संनिहितं सदा मुखे ॥२७५॥ Viamsa 18 सरसि बहुशस ताराछायां दशन परिवञ्चितः कुमुदविटपान्वेषी हंसो निशाख अविचक्षणः । न दशति पुनस ताराशङ्की दिवापि सितोत्पलं कुहकचकितो लोकः सत्ये ऽप्य अपायम अपेक्षते ॥२७६॥ hari तद अहो। किं मयापकृतं स्वामिनः पङ्गलकस्य । दमनक आह । वयस्य । निर्निमित्तापकारपराः पररन्ध्रान्वेषिणश च रानि भवन्ति । सो ऽब्रवीत् । एवम् एतत् । साधु । चेदम उच्यते। चन्दनतरुषु भुजंगा। जलेषु कमलानि तत्र च याहाः । गुणघातिनः खला इति । भवन्ति न सुखान्य अविनानि ॥२७७॥ न शैलशृङ्गे कमलं प्ररोहति । न दुर्जनात् क्वापि शुभं प्रवर्त। न साधवो यान्ति कदापि विक्रेयां यवाः प्रकीर्णा न भवन्ति शालयः ॥२७८॥ न मारमध अपराधानां । स्मरन्ति सुकृतान्य अथ । *असंभिन्नार्यमर्यादाः । साधवः पुरुषोत्तमाः ॥२७९ ॥ vansit Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy