________________
70
Book I. THE ESTRANGING OF FRIENDS%3
Frame-story: Lion and bull.
अतोऽहं ब्रवीमि । त्यक्ताश चाभ्यन्तरा येन । इति । पिङ्गालक आह । कथं यो सौ मया दुष्टबुद्धिर् इति । कश् चास्य युद्धमार्गः । इति । सो ऽब्रवीत् । अन्यदासौ *सस्ताङ्गो देवपादान्तिकम् आगच्छति । अद्य यदि शृङ्गायप्रहरणाभियुक्तचित्तः सचकितश चोपस्थि- 3 ष्यति । तद् देवपादैर् अवगन्तव्यम् । दुष्टबुद्धिर् इति ।
एवम् उत्कोत्थाय दमनकः संजीवकसकाशं प्रायात् । तस्यापि मन्दगतिर् अधृतिपरीतम दात्मानम् अदर्शयत् । ततस तेनाभिहितः । भद्र । भवतः कुशलम् । सो ऽब्रवीत् । 6 कुतः कुशलम् अनुजीविनाम् । कस्मात्।
संपत्तयः परायत्ताः । सदा चित्तम् अनिवृतम् ।
स्वजीविते ऽप्य अविश्वासस् । तेषां ये राजसेवकाः ॥ २६२॥ तथा। तावज जन्मापि दुःखाय । ततो दुर्गतता परा।
तत्रापि सेवया वृत्तिर् । अहो कष्टपरंपरा ॥२६३॥ जीवन्तोऽपि मृताः पञ्च । व्यासेन परिकीर्तिताः। दरिद्रो व्याधितो मूर्खः । प्रवासी नित्यसेवकः ॥२६४॥ आहरन् अपि न स्वस्थो । विनिद्रो न प्रबुध्यति । वक्ति न खेच्छया किंचित् । सेवको पीह जीवति ॥२६५ ॥ सेवा श्ववृत्तिर आख्याता। यैस तैर मिथ्या प्रजल्पितम्। स्वच्छन्दं चरति श्वा हि । सेवको राजशासनात् ॥२६६॥ भूशय्या ब्रह्मचर्य च । कृशत्वं लघुभोजनम् । सेवकस्य यतेर् यद् । विशेषः पापधर्मजः ॥ २६७॥ स्वाभिप्रायपरोक्षस्य । परचित्तानुवर्तिनः। स्वयंविक्रीतदेहस्य । सेवकस्य कुतः सुखम् ॥२६॥ प्रत्यासत्तिं व्रजति पुरुषो यावती सेवमानः कुर्यात् स्वामिन्य अवहितमनास तावतीम् एव भीतिम् । राजा वह्निः सदृशम् उभयं केवलं नामभिन्नं सद्यो दूराद् भवति दहनो दुःसहः संनिकर्षात् ॥ २६९॥ manda मृदुनापि सुगन्धेन । *सुमृष्टेनापि हारिणा।
मोदकेनापि किं तेन । निष्पन्नो यस तु सेवया ॥२७०॥ तत् सर्वथा। कः कालः कानि मित्राणि । को देशः को व्ययागमौ।
कश चाहं का च मे शक्तिर् । इति चिन्त्यं मुहर मुऊः ॥२७१॥ हृदयान्तर्निहितभावस्य दमनकस्य वचनं श्रत्वा संजीवको ब्रवीत । भट । कथय । किं 30 वनुकामस त्वम्। सोऽब्रवीत् । भवांस तावन् मम सुहृत् । अवश्यं च मया तव हितम आख्येयम्। अयं हि तावत् स्वामी पिङ्गलकस् तवोपरि क्रुद्धबुद्धिः । अनेन चाद्याभिहितम्। संजीवकं हत्वा सर्वक्रव्यभक्षाणां तृप्तिम् उत्पादयिष्यामि । इति । तच क्रुखाहं परं विषादम 33
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org