________________
OR, THE LION AND THE BULL. Book I.
Tale xi: Blue jackal.
69 .
सत्वं कुतो ऽप्य् *आगतम् । तन् न विज्ञायते । कीदग् अस्य चेष्टितं पौरुषं च । तद् दूरतरं गच्छामः । उक्तं च । न यस्य चेष्टितं विद्यान । न कुलं न पराक्रमम्।
न तस्य विश्वसेत् प्राज्ञो। यदीच्छेच *छियम आत्मनः ॥२६१॥ चण्डरवो ऽपि तान भयव्याकुलान् विज्ञायेदम आह । भो भोः श्वापदाः । किं मां दृष्ट्वा यूयं वस्ता *वजय । यतः । श्वापदानां न को ऽपि स्वामी । इत्य् अवगम्याखण्डलेनाहं चण्डरवो नाम प्रभुत्वे ऽभिषिक्त इति मद्भुजवजपञ्जरान्तरस्थाः सुखेन तिष्ठत । इति । तवचनम् आकर्ण्य सिंहव्याघ्रचिचकवानरशशकहरिणजम्बुकादयः श्वापदगणास तं प्रणेमुः । प्रोचुश च । स्वामिन । समादिश । यद् अस्माभिः कर्तव्यम् । अथ तेन सिंहस्यामात्यपदवी। व्याघ्रस्य शय्यापालत्वम् । दीपिनः स्थगिका । करिणः प्रतीहा- 12 रत्वम् । वानरस्य छत्रधारत्वं दत्तम्। ये पुनर् आत्मीयाः शृगाला आसन । ते सर्वे ऽप्य् अर्धचन्द्रं दवा निःसारिताः । एवं च तस्य राज्ये श्रियम् अनुभवतस् ते सिंहादयो मृगान व्यापाद्य तस्य 15 पुरतः प्रक्षिपन्ति । सो ऽपि प्रभुधर्मेण सर्वेषां संविभज्य तान प्रयच्छति।
एवं गच्छति काले कदाचित् तेनास्थानगतेन तत्पदेशासन्न- 18 शब्दायमानशृगालवृन्दशब्दम आकर्ण्य पुलकितवपुषानन्दाश्रुपूर्णनयनयुगलेनोत्थाय तारतरस्वरेण शब्दायितुम् आरब्धम्। अथ ते सिंहादयस् तद् आकर्ण्य । शृगालो ऽयम् । इति मत्वा सलज्जा 24 अधोमुखाः क्षणम् एकं तस्थुर् उक्तवन्तश च । भोः । वाहिता वयम् अनेन शृगालेन । तद् वध्यताम् असौ । सो ऽपि तद् आकर्ण्य पलायितुम ईहमानो व्याघ्रण खण्डशः कृतो मृतश च ॥ 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org