SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 68 Book I. THE ESTRANGING OF FRIENDS%3B Talex: Louse and flea. Frame-story. Talexi: Blue jackal. दष्ट इव । उल्मकस्पृष्ट इव त्वरिततरम् उत्थाय पृष्ठप्रदेशं संस्पृशन परिवर्तकम् आह । अरे । दष्टो ऽस्मि केनापि । अस्मिन् शयने सुनिपुणं किंचित्स्वेदजजातिम् *अन्वेषयत । इति राजवचनं श्रुत्वा । डुण्डुको भयात् प्रणश्य खदाविवरम् एकम् आश्रितः । अथ तैर् नृपादेशकारिभिर् आगत्य स्वाम्यादेशाद् दीपिकां गृहीत्वा सुनिपुणम् अन्वेषयद्भिर् वस्त्ररोमान्तलीना मन्दविसर्पिणी विधिनियोगाद् आसादिता सपरिजना व्यापादिता च ॥ अतोऽहं ब्रवीमि । न ह्य अविज्ञातशीलाय । इति । अन्यच् च । देवपादैर् यत् क्रमागता भृत्यास त्यक्ताः। तद् अयुक्तम् । यतः। त्यक्ताश चाभ्यन्तरा येन । बाह्याश् चाभ्यन्तरीकृताः। स एव मृत्युम आप्नोति । मूर्खश् चण्डरवो यथा ॥२६०॥ पिङ्गलक आह । कथम् एतत् । सो ऽब्रवीत्। ॥ कथा ११॥ अस्ति कश्चिन नगरपरिसरसंनिकृष्टविवरान्तरशायी जम्बुकश *चण्डरवो नाम । स कदाचिद् आहारम अन्वेषयन क्षपाम 15 आसाद्य शुन्धामकण्ठः परिभ्रमन नगरम अनुप्रविष्टः । ततो नगरावासिभिः सारमेयेस तीक्ष्णदशनकोटिभिर् विलुप्यमानावयवो भयंकरारवत्रस्त हृदय इतस ततः प्रस्खलन पलायमानः 18 किम् अपि शिल्पिगृहम अनुप्रविष्टः । तत्र बृहन्नीलिकाभाण्डमध्ये पतितः । श्वगणश च यथागतं गतः । असाव् अपि कथम अय् आयुःशेषतया तस्मान नीलिकाभाण्डात् समुत्पत्य वनं प्रति 21 गतः । अथ तस्य शरीरं नीलीरसरञ्जितं दृष्ट्वा समीपवर्तिनः सर्वे मृगगणाः । किम् इदम् अपूर्ववर्णाढ्यं सत्वम् । इति ब्रुवाणा भयतरलितदृशः पलायन्ते स्म । कथयन्ति च। अहो । अपूर्वम् एतत् 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy