________________
67
OR, THE LION AND THE BULL. Book I.
Taler: Louse and flea.
स्याधिष्ठाता। तस्यासंशयं मनोरमम् अमृतोपमं चामृग भविष्यति। अजस्रं भिषग्भिः क्रियमाणौषधाधुपक्रमप्रयत्नवशद् वातपित्तश्वेष्मणाम अविरोधाद् अनामयतया स्निग्धद्रवपेशलैः संखण्डदाडि- 3 मंत्रिकटुकपटुभिः स्थलजलजखेचरप्रधानपिशितोपस्कृतैर् आहारैर् उपबृंहणाद् उपचरितं रुधिरं रसायनम् इव मन्ये । ततस् तत् सुरभि तुष्टिपुष्टिकरं स्वादु च तव प्रसादाद् आस्वादयितुम् । इच्छामि। साब्रवीत् । असंभाव्यम एतत् त्वद्विधानाम अग्निमुखानां दंशवृत्तीनाम् । अतो ऽपगम्यताम् अस्माच छयनात् । इति । उक्तं च। देशं कालं कार्य । परम आत्मानं च यो न जानाति ।
अविमृश्य यः करोति च न स फलम आप्नोति वै मूर्खः ॥२५॥ ar ततः सो ऽस्याः पादयोर निपत्य पुनस तद् एव प्रार्थितवान । 12 सा तु दाक्षिण्यपरतया तत् । तथा । इति प्रतिपन्नवती । यतो राज्ञः कणीसुतकथानके कथ्यमाने प्रच्छादनैकदेशावस्थितया तया श्रुतम् । यन मूलदेवेन देवदत्तायाः पृच्छन्याः कथितम्। तथा हि। 15
यः पादयोर् निपतितं । कुपितो ऽपि न मन्यते । तेन ब्रह्मा हरिः शम्भुस् । बयो ऽपि स्युर् विमानिताः ॥२५९॥ तच् च स्मृत्वा तद्वचनं प्रतिपद्याभिहितवती। परं नादेशे नाकाले 18 त्वयास्य भक्षणायोपस्थातव्यम् । सो ऽब्रवीत् । को देशः । को वा कालः । अनभिज्ञो ऽहं नवसमागमत्वात् । साब्रवीत् । मदश्रमनिद्रापरीतकायो यदा नृपतिर् भवति । तदा निभृतं पादयोस् । त्वया दंष्टव्यः । एतौ देशकालौ। तथैव च तेन प्रतिपन्नम् । एवं वर्तमाने प्रदोष एव तेन कालानभिज्ञेन बुभुक्षया चार्तेन सुप्तमात्र एव पृष्ठप्रदेशे दष्टो राजा । असाव् अप्य् उल्कादग्ध इव । वृश्चिक- 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org