________________
Frame story.
Book I. THE ESTRANGING OF FRIENDS;
66
Tale x: Louse and flea. सिंह आह । कथम् । सो ऽब्रवीत् । *त्वं तावद् अजस्रम् अनेकमत्तगजगवर्यमहिषवराहशार्दूलचित्रकयुद्धेषु नखदन्तसंनिपातकृतव्रणशबलतनुः । अयं पुनः सदा वत्समीपवासी प्रकीर्ण विएमूत्रः । तदनुषङ्गाच् च कृमयो भविष्यन्ति । ते युष्मच्छरीरसामीप्यात् कृतवि- 3 वरानुसारिणो ऽन्तः प्रवेच्यन्ति। तथापि त्वं विनष्ट एव। इति। उक्तं च ।
न ह्य अविज्ञातशीलाय । प्रदातव्यः परिश्रयः ।
डण्डुकस्य हि दोषेण । हता मन्दविसर्पिणी ॥२५६ ॥ मोऽबबीत् । कथम् एतत् । दमनकः कथयति ।
॥ कथा १०॥ अस्ति कस्यचिद् राज्ञो वासगृहे सर्वगुणोपेतम् अनन्यसदृशं शय- " नीयम् । तत्पच्छादनपटैकदेशे मन्दविसर्पिणी नाम यूका प्रतिवसति स्म। पुत्रपौत्रदुहितुदौहित्रादिमा प्रसवसंततिपरिवृता राजानं सुप्तम अन्तर् भक्षयति । तच्छोणितेन *पुष्टा दर्शनीया च सा 12 संवृता । एवं च तस्यास तत्र वसन्या डुण्डुको नाम मत्कुणो वायुप्रेरितस तस्मिन् शयने पतितः । स तु तच छयनम् अतिसूक्ष्मोतरप्रच्छादनपटम *उभयोपधानं जाहूवीविपुलपुलिनसदशं 15 परममृदु सुरभिगन्धि दृष्ट्वा परं परितोषम् अगमत् । तत्स्पीकृष्टमना इतश चेतश च परिभ्रमन् कथम अपि दैववशान मन्दविसर्पिण्या मिलितः । तया चाभिहितः । कुतस त्वम अस्मिन 18 प्रभुयोग्ये ऽधिवासस्थाने समायातः । गम्यताम् अस्मात् त्वरितम्। इति । ततः सो ऽब्रवीत् । आर्ये । मा मेवं वद । कुतः ।*
गुरुर् अग्निर् द्विजातीनां । वर्णानां ब्राह्मणो गुरुः ।
पतिर् एको गुरुः स्त्रीणां । सर्वस्याभ्यागतो गुरुः ॥२५७॥ इति । अतिथिम तवाहम । मया तावद् अनेकप्रकाराणि ब्रामणक्षत्रियविटशूद्राणां रूधिराण्य आस्वादितानि । तानि च ५ क्षाराणि पिछिलान्य अपुष्टिकराणि च । यः पुनर् अस्य शयन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org