________________
OR, THE LION AND THE BULL. Book I.
Tale ix: Grateful beasts and thankless man.
आगच्छ ता तेन स्मृतं वानरोक्तम् । आगतश च तत्सकाशं दृष्टश च वानरः । तेनामृतस्वादुफलानि निवेदितानि । आश्वासितश च स तैः । वानरः पुनर् अब्रवीत् । यदि फलैर् भवतः कार्यम् । तन नित्यम् एवागन्तव्यम् । विजेनाभिहितम् । भवता सर्व कृतम् । परं व्याघ्रं मे दर्शय । तेन च नीत्वा व्याघ्रो दर्शितः । व्याघेण च ज्ञात्वा प्रत्युपकारार्थ घटितयैवेयादिकं निवेदितम् । उक्तं 6 च । कश्चिद् राजपुत्रो ऽश्वेनापहृत एकाकी मत्क्रमे पतितो व्यापादितश च । तत्सतम एतत् सर्व मया सुप्रयुक्तं स्थापितं तव निमित्तम् । एतद् गृहीत्वा गच्छतु भवान् यथाभिप्रेतम् । इति । " ब्राह्मणश च तद् गृहीत्वा सुवर्णकारं स्मृत्वा । स ममोपकारी विक्रापयिषति । एवं मत्वा तत्सकाशं गतः । सुवर्णकारेणापि सादरेण *पाद्या_सनखादनपानभोजनादिसत्क्रियां कृत्वोक्तम् । 12 यथा । भवान आदिशतु । किं करोमि । विजेनोक्तम् । मया सुवर्णम् आनीतम् अस्ति । तत् त्वया विक्रेतव्यम् । सुवर्णकारो ऽब्रवीत् । दर्शय सुवर्णम् । इति । दर्शितम् अनेन । सुवर्णकारस् 15 तद् दृष्ट्वा चिन्तितवान् । मयैवेदं घटितं राजपुत्रस्य निमित्ते । एवं च चितेनावधार्याब्रवीत् । तिष्ठतु भवान् अत्रैव । यावद् अहं कस्यचिद् दर्शयामि । एवम उक्ता राजकुले गत्वा दर्शितं राज्ञः । 18 तद् दृष्ट्वा राजाब्रवीत् । कुत्र त्वयेदं प्राप्तम् । इति । सो ऽब्रवीत् । मम वेश्मनि ब्राह्मणस तिष्ठति । तेनेदम् आनीतम् । ततश चिन्तितं राज्ञा । नूनं तेन दुरात्मनैव सुतो मे व्यापादितः । इति 21 दर्शयामि तस्य तत्फलम् । इति । ततः समादिष्टा आरक्षकपुरुषाः । तं ब्राह्मणापसदं बन्धयित्वा व्यतीतायां रजन्यां शूलाम आरोपयत ।
24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org