________________
62
Book I. THE ESTRANGING OF FRIENDS%3B
Tale ix: Grateful beasts and thankless man.
-
*ब्रवीति । भोः साधो। माम् अय् उत्तारय । एवं श्रुत्वा विजेन सो ऽय् उतारितः । सर्पो ऽब्रवीत् । भो द्विज । माम अप्य् उतारय । तच छुत्वा ब्राह्मणो ऽब्रवीत् । युष्मन्नामग्रहणेनापि ४ वस्यते । किं पुनः स्पर्शनेन । सर्प आह । अस्माकं स्वातन्त्र्यं नास्ति । अनादिष्टा न दशामः । विसत्येनात्मानं शपामि । अस्मत्सकाशान न भयं कर्तव्यम् । तेनैवम् आकर्योतारितः सो ऽपि । अथ ते ब्रुवन्ति । सर्वेषां पापानाम् आयतनं कश्चिन मनुष्यो भवति । एतन मत्वा नोत्तारयितव्यो ऽयम् । न चास्य विश्वासम अनुगन्तव्यम् । पुनर् अपि व्याघेणोक्तम् । य एष पर्वतो बहुशि- " खरो दृश्यते । तस्योत्तरे पार्श्वे दरीगहने मदीयगुहा । तब त्वया ममानुग्रहणायकवारम आगन्तव्यम् । येनाहं भवतः प्रत्युपकारं करोमि । येनर्णसंबन्धो ऽन्यजन्मन्य अपि न भवति । एवम 12 उता गुहाभिमुखं प्रायान् । अथ वानरो ऽब्रवीत् । तत्रैव गुहासंनिधौ ममावासो निरसमीपे । तस्मिंस त्वया मत्सकाशम् आगन्तव्यम । इति । एवम उक्त्वा प्रायात् । सर्पणोक्तम् । यदा 15 भवत आत्ययिकं भवति । तदाहं स्मर्तव्यः । इति । एवम् उक्वा यथागतम् एव प्रायात् ।
अथ स कूपस्थः पुरुषो मुहर् मुहः शब्दं करोति । भो 18 ब्राह्मण । माम अप्य् उत्तारय । अथ द्विजेन जातानुकम्पेन स्वपक्ष इति सो ऽण् उतारितः । तेन चाभिहितम् । यथा । अहं सुवर्णकारः । भृगुकच्छे वसामि । यदि सुवर्ण किंचिद् घटनीयं भवति । 1 तदा त्वया मम सकाशम आनेतव्यम् । इति । एवम् उत्वा यथागतम् एव प्रायात् । · अथ ब्राह्मणेन भ्रमतापि न किंचिद् आसादितम् । गृहम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org