________________
OR, THE LION AND THE BULL. Book I. Tale ix: Grateful beasts and thankless man.
॥ कथा ९ ॥
अस्ति कस्मिंश्चिद् अधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः । तस्य ब्राह्मणी दारिद्र्याभिभूता प्रतिदिनम् एवं वदति । भो ब्राह्मण ' : निरुत्साह । कठोरहृदय । किं न पश्यसि क्षुधया पीड्यमानान्य् अपत्यानि । येन निश्चिन्तस् तिष्ठसि । कियन्तम् अय् अध्वानं गत्वा यथाशक्ति कम् अप्य् अशनोपायं कृत्वा द्रुततरं पुनर् आगच्छ । अथ ब्राह्मणस् तद्वचननिर्वेदेन महाध्वानं गन्तुम् आरब्धः । कतिभिर् दिवसैर महारवीं प्रविष्टः । तस्यां चाटव्यां व्रजता तेन शुत्क्षामेणोदकम् अन्वेष्टुम् आरब्धम् । तावत् तस्याश चैकप्रदेशे तृणैर् आवृतो महान् कूपो दृष्टः । यावद् विलोकयति । तावद् व्याघ्रवानरसर्पमानुषास् तन्मध्ये दृष्टाः । तैर् अय् असौ इति । ततः । मानुषो ऽयम् ' इति मत्वोक्तवान् व्याघ्रः । भो दृष्ट भो महासत्त्व । प्राणिरक्षणे महान धर्मः । इति मत्वा माम् उत्तारय । येनाहं * प्रियमित्रकलत्रपुत्रस्वजनैः संगतस् तिष्ठामि । ब्राह्मण आह । भवतो नामग्रहणेनापि सर्वेषां प्राणिनां भयम् 15 उत्पद्यते । नन्व् अहम् अतस्त्वत्तो बिभेमि । पुनर् अपि व्याघ्रेणाभिहितम् ।
12
Jain Education International
61
ब्रह्मघ्ने च सुरापे च ' क्लीबे भग्नवते शठे ।
निष्कृतिर् विहिता सद्भिः । कृतघ्ने नास्ति निष्कृतिः ॥ २४८ ॥ पुनर् अप्य् आह । त्रिसत्येनाहम् आत्मानं शपामि । न भयं माशाद् विद्यते । अतो ऽनुकम्पयत्तारय । ततो द्विजेन स्वचित्तेनावधारितम् । प्राणिनां प्राणरक्षणे यदि विपत्तिर् भवति । तथापि श्रेयस्करी । इति । एवं मत्वत्तारितः । व नरो ऽय् एवं
21
For Private & Personal Use Only
18
www.jainelibrary.org