SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull. 60 60 मूलभृत्योपरोधेन । न ह्य आगन्तुं प्रपूजयेत् । नातः परतरो ऽन्यो ऽस्ति । राज्यभेदकरो गदः ॥२३७॥ सिंह आह । भद्र। मा मैवं वोचः । यतः। उक्तो भवति यः पूर्व । गुणवान् इति संसदि । न तस्य वाच्यं नैर्गुण्यं । प्रतिज्ञाभङ्गभीरुणा ॥ २३८॥ तथा तस्य मया। शरणागतोऽयम् । इति पूर्वम् अभयप्रदानं दत्तम् । तत् कथम् असी 6 कृतघ्नो भविष्यति । दमनक आह । न दुर्जनो वैरम इति प्रकृप्यति न साधुर एवं सुकृतेन तुष्यति । स्वभावभावेन हि भाविताव उभौ यथेचनिम्बी स्वरसेन ती तथा ॥२३९॥ vamsa अपि च । दुर्जनः प्रकृतिं याति । सेव्यमानो ऽपि यत्नतः । स्वदनाभ्यञ्जनोपायैः । श्वपुच्छम इव नामितम् ॥ २४०॥ तथा च । स्वल्पे ऽपि गुणाः स्फीतीभवन्ति गुणसमुदितेषु पुरुषेषु । शशिनः खलु तुहिनगिरेः । शिखरप्राप्ता व मयूखाः ॥२४१॥ तथा। नश्यन्ति गुणा गुणिनां । पुरुषाणाम् अगुणवत्सु पुरुषेषु । अञ्जनगिरिशिखरेष्व व । निशास चन्द्रांशवः पतिताः॥२४॥ कृतशतम् असत्सु नष्टं । सुभाषितशतं च नष्टम अबुधषु । वचनशतम् अवचनकरे । बुद्धिशतम् अचेतने नष्टम् ॥२४३॥ नष्टम् अपाचे दानं । नष्टं हितम् अलसबुद्धिविज्ञाने। नष्टं कृतम् अकृतज्ञे। नष्टं दाक्षिण्यम् अनभिज्ञे ॥२४४॥ अपि च। अरण्यरुदितं कृतं शवशरीरम् उद्घर्तितं स्थले कमलरोपणं सुचिरम ऊषरे वर्षणम् । श्वपुच्छम् अवनामितं बधिरकर्णजापः कृतस तद अन्धमुखमण्डनं यद् अबुधे जने भाषितम् ॥२४५॥ किं च। चिरं दुग्धो ऽनड्वान स्तनभरनता गौर् इति वृथा परिष्वक्तः षण्ढो युवतिर् इति लावण्यकलिता। कृता वैडूर्याशा विततकिरणे काचशकले यद् अज्ञानासङ्गाद् अविबुधजने सेवनरतिः ॥ २४६॥ śikha तत् सर्वथा स्वामिनास्मदीयं हितवचनं नोल्लङ्घनीयम् । किं *च । श्रूयताम् । व्याघ्रवानरसाणां। यन मया न कृतं वचः।। दुर्विनीतेन । मानुषेण निपातितः ॥२४७॥ पिङ्गलक आह । कथम् एतत् । दमनकः कथयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy