________________
59
OR, THE LION AND THE BULL. Book I.
Frame-story: Lion and bull.
न सो ऽस्ति पुरुषो राज्ञां । यो न कामयते श्रियम् ।
न शक्तिर् यावद् अन्यापि । तावत् संसेवते परम ॥२२६॥ सिंह आह । भद्र । तथापि मम तस्योपरि चित्तं न *परिदुष्यति । यतः ।
अनेकदोषदुष्टोऽपि । कायः कस्य न वल्लभः ।
कुर्वन्न अपि व्यस्लीकानि । यः प्रियः प्रिय एव सः ॥ २२७॥ किं च। अप्रियाण्य अपि कुर्वाणो । निष्ठुराण्य अपि च ब्रुवन्।
चेतः प्रह्लादयत्य एव । सर्वावस्थासु वल्लभः ॥ २२८ ॥ दमनक आह । अत एवायं दोषो ऽभ्युदयस्य । यत् सर्वमृगजनं परिहृत्य स्वामिना
आस्था प्रतिबद्धा। सोऽयम् अधुना स्वयं स्वामित्वम् अभिवाञ्छति । उक्तं च। १
यस्मिन्न अप्य अधिकं चक्षुर । आरोपयति पार्थिवः।।
अज्ञात सकुलीने वा । स लक्ष्म्या हरते मनः ॥ २२९॥ . तत् । अयम् अभीष्टो ऽपि दुष्टत्वाद् अनिष्टः । इति त्यक्तुं युक्तः । सुष्टु खल इदम 12 उच्यते।
पूज्यो बन्धुर अपि प्रियो ऽपि तनयो धाता वयस्यो ऽपि वा यो मोहाद् अनवद्यकार्यविमुखो हेयः स कार्यार्थिना। . लोके हि प्रथिता ननु श्रुतिर् इयं नार्यो ऽपि गायन्ति यां
किं कार्य कनकेन तेन भवति च्छेदाय कर्णस्य यत् ॥२३०॥ sārdū यच् च । महाकायोऽयम् । इत्य उपकाराय चिन्त्यते। तद् अपि विपरीतम् एव । यतः। 18
किं गजेन प्रभिन्नेन । राजकर्माण्य अकुर्वता।
स्थूलो वा यदि वास्थूलः । श्रेयान् कृत्वकरः पुमान् ॥ २३१॥ अथवा देवपादानाम् अस्योपर्य अनुकम्पा । तद् अप्य् अयुक्तम् । यतः।
सतां मतिम अतिक्रम्य । यो सतां वर्तते मते । कालेन व्यसनं प्राप्य । पश्चात्तापं स गच्छति ॥२३२॥ यो न निःश्रेयसं ज्ञानं । सुहृदां प्रतिपद्यते।
अचिरात् स *च्युतः स्थानाद् । विषतां वर्तते वशे ॥ २३३॥ तथा च।
कार्याकार्यम् अनार्येर् । उमार्गनिरर्गलैर् गलन्मतिभिः।
नाकर्ण्यते विकणैर् । नयोक्तिभिर् युक्तम् उक्तम् अपि ॥२३४॥ ar 27 अपि च । अप्रियस्यापि वचसः । *परिणामाविरोधिनः।
वक्ता श्रोता च यत्रास्ति । रमन्ते तत्र संपदः ॥ २३५॥ तथा च। क्रियासु युक्तिर् नृप चारचक्षुषो ।
न वञ्चनीयाः प्रभवो ऽनुजीविभिः । अतोऽर्हसि तन्तुम् असाधु साधु वा । हितं मनोहारि च दुर्लभं वचः ॥ २३६॥ ।
vamsa 88.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org