________________
Book I. THE ESTRANGING OF FRIENDS;
Tale ix : Grateful beasts and thankless man.
तैश च बद्देन ब्राह्मणेन भुजगः स्मृतः । स्मृतमात्र एव च तदन्ति कम आगतः । अब्रवीच च । किं तवोपकारं करोमि । द्विजेनोक्तम् । माम *अस्माद् बन्धनान मोचय । सो ऽब्रवीत् । अहं राजवल्लभां पत्नी दंक्ष्यामि। ततः कस्यापि महामान्त्रिकस्याभिमन्त्रणाद् अन्यभिषजां च विषनाशनैर् अगदैः प्रलिप्ताम अपि न निर्विषीकरियामि । तवैव हस्तस्पर्शनान निर्विषीभविष्यति । ततम् त्वं मुच्यसे । इति प्रतिज्ञाय सर्पण राजमहिषी दष्टा । ततो राजकुले हाहाशब्दः समुत्थितः । सर्वतः पुरम आकुलीभूतम् । अथ गारुडि कमान्त्रिकतान्त्रिकभैषजिकान्यदेशनिवासिनः समाहूताः।" समस्तैर् अपि स्वशक्त्या समुपचरितम । न कस्यचिद् उपचारण निर्विषीभूता। ततो भ्रमितो डिण्डिमः । तम आकर्ण्य द्विजेनाभिहितम् । अहम एनां निर्विषीकरोमि । इति वचनसमम एव 12 बन्धनाद् उन्मोच्य समानीय ब्राह्मणो राजे निवेदितः । ततो राजाब्रवीत् । भवान एनां निर्विषीकरोतु । सो ऽपि गत्वा राजीसकाशं हस्तस्पर्शमात्रात् नां निर्विषीकृतवान।
तां च प्रत्युज्जीवितां दृष्ट्वा राजा तस्य पूजां गौरवं च कृत्वा सबहुमानम् अमुं पृष्टवान । सत्यं कथयतु भवान् । केन प्रकारेणेदं सुवर्ण लब्धम् । इति । विजेनादितः प्रभृति यथावृतम अनुभूतं 18 सर्वम आख्यातम् । अवगतार्थेन च राज्ञा तं सुवर्णकारं निगृह्यास्मै ग्रामसहस्रं दत्वात्मनो मन्त्रित्वे नियोजितः। तेन च स्वकी यकुटम्बम आनीय *सुदृस्वजनसमेतेन भोजनादिक्रियापरितुष्टेनानेकमख- 21 करणार्जितपुण्यप्राग्भारेण सकलराज्यचिन्तासंभृताधिपत्येन सुखम अनुभूयते स्म ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org