________________
GE. THE LION AND THE BULL. Book I. Tale viii. Weaver as Vishnu.
57 Frame-story.
तत् किम इदम आश्चर्यम् । इति सविस्मयो ब्रह्मापि बभूव। अतो ऽहं ब्रवीमि ।
सुप्रयुक्तस्य दम्भस्य । ब्रह्माप्य अन्तं न गच्छति। कौलिको विष्णुरूपेण । राजकन्यां निषेवते ॥२१॥ इति । एवं देवानां जातकौतुकानां विचिन्तयताम् एव कौलिकश चक्र विक्रमसेने प्राहिणोत् । तच च तं राजानं विधा विधाय पुनम तस्यैव हस्तम अनुप्राप्तम् । तच च दृष्ट्वा सर्वे ऽपि राजानः स्वस्व वाहनेभ्यो ऽवतीर्य प्रणिपातबन्धुरपाणिपादशिरसस् तं नारायणरूपं व्यज्ञपयन । देव ।
हतं सैन्यम् अनायकम् । इत्य अवधार्य परिरक्षास्मदीयप्राणान् । समादिश्यताम् । किम् अस्माभिः कर्तव्यम । इति । एवं वादिनि सकलनरपाललोके स 12 नारायणरूपो ऽब्रवीत् । अभयं भवताम अतः परम् । यद् अयं सुप्रतिवर्मा समादिशति । तद् अविचारं सर्ववारं भवद्भिर् अनुऐयम । ततः । यथाज्ञापयति स्वामी । इत्य् एवम् उवा सर्वे रा- 15 जानम तदाज्ञाम अङ्गीचक्रुः । ततो ऽपि नरकरिरथतुरगभाण्डागारादि सर्व प्रतिपक्षधनं सुप्रतिवर्मणो वशीकृत्य स्वयं कौलिको लब्धविजयमाहात्म्यो राजदुहित्रा सह सकलसुखान्य अनुबभूव ॥ 18
अतो ऽहं ब्रवीमि । कृते विनिश्चये पुंसाम् । इति । एतद आकर्ण्य करटक आह । यद्य एवं भवान अपि कृतनिश्चयः । ततो गच्छतु भवान् अभिमतसिद्धये। शिवास ते सन्तु पन्थानः ।
इत्य उक्ते ऽसाव् अपि सिंहसकाशं गतः। प्रणम्योपविष्टश च सिंहनाभिहितः । कुतो 21 भवांश चिराद दृष्टः । सो ऽब्रवीत् । देव । आत्ययिकम् अद्य किम् अपि स्वामिनः । तेनाप्रियम् अपि भद्राय निवेदितुम् आगतः । न चायं मनोरथः संश्रितानाम् । किंतु समनन्तरक्रियाकालातिपातभीतर हि निवेद्यते । उक्तं च ।'
24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org