________________
55
OR, THE LION AND THE BULL. Book I.
Tale viii: Weaver as Vishnu.
खिलमनोरथो मे मृत्युः । ताम अपि विना मे मृत्युः । किं बहुना। उभयथापि मृत्युर् एव । इति । तद् वरं सत्वम् आलम्बितम् । इति । किं च । युद्धम् अङ्गीकृतवन्तं कदाचिद् गरुडारूढं मां 3 पश्यन्तो वासुदेवं मत्वा शत्रवः प्रपलायन्ते । उक्तं च ।
धैर्य हि कार्य सततं महद्भिः कृच्छ्रे ऽपि कष्टे ऽय् अतिसंकटे ऽपि । कृच्छ्राणि कृच्छ्रेण समुतरन्ति
धैर्योच्छ्रिता ये प्रतिपतिदक्षाः ॥२१६॥ इति । indra एवं कृतयुद्धनिश्चये कौलिके विष्णुं *वैकुण्ठस्वर्गे वैनतेयो व्यज्ञ- " पयन् । यथा। देव । पृथिव्यां *पुण्ढ़वर्धनाभिधाने नगरे देवाकारम उपधारी कोलिको राजदुहितरम् उपभुते । ततः पुण्द्रवर्धनाधिपतेर् नृपतेर् *दाक्षिणात्यः समर्थतरो नृपतिर् मूलोच्छेदं कर्तुम 12 आयातः । कौलिकश् च श्वशुरसाहाय्ये कृतनिश्चयो ऽद्य वर्तते । तद् विज्ञाप्यम् इदम् । यदि तस्य संग्रामे मृत्युर् भविष्यति । तदा । दाक्षिणात्येन राज्ञा भगवान नारायणो व्यापादितः । इति मय- 15 लोके संजातप्रवादे यज्ञादिक्रियाणाम अंत ऊर्ध्व लोपो भविष्यति। यानि च भट्टारकायतनानि । तानि नास्तिका विनाशयियन्ति । *भगवद्भक्ताश च चिदण्डिनः प्रव्रज्यां त्यक्ष्यन्ति । इति समुपस्थिते 18 देवः प्रमाणम् । ततो भगवता वासुदेवेन सम्यग् विभाव्य तं प्रत्य अभिहितम् । पतंगराज । युक्तम् एवेदम् । देवांशकः कौलिको ऽयम । अनेन तस्य राज्ञो घातकेन भवितव्यम् । ततो ऽयम 1 एवाभ्युपायः । यद् अस्य मया त्वया च साहाय्यं कार्यम् । तद् अहं तस्य शरीरम अनुप्रविशामि । वं च गरुडम् अनुप्रविश । चक्रं च चक्रे प्रविशतु । एवम् अस्तु । इति प्रतिपन्नं गरुडेन।
..
..
Jain Education International
For Private & Personal Use Only
.www.jainelibrary.org