________________
54
Book I. THE ESTRANGING OF FRIENDS;
Tale viii: Weaver as Vishnu.
तत् प्रातर् भवन्तो ऽपि ज्ञास्यन्ति । इति भणित्वा प्राकारद्वाराणि सुरक्षितानि कारयां चक्रे । ततः सुदर्शनाम आय मधुराक्षरैः सबहुमानम अब्रवीत् । वत्से । त्वदीयभर्तुर बलाद् अस्माभिः । शत्रुणा सह विग्रहः प्रारब्धः । तद् उच्यताम अद्य निशायाम आगती भगवान नारायणः । यथा प्रातर् एनम् अस्मच्छर्बु व्यापादयति ।
सुदर्शनापि पितुर् वाक्यं सर्व सविशेषं राचौ तस्मै निवेदितवती । तच् छ्रुत्वा विहस्य कौलिको ऽब्रवीत् । भने । कियन्मात्रम् एतन मानुषविग्रहप्रयोजनम् । मया हि पूर्व हिरण्यकशिपुकंसम- " धुकैटभप्रभृतयो मायाविनी लीलयैव महादानवाः सहस्रशो निहताः । तद् गत्वा ब्रूहि राजानम् । यथा । निराकुलस तिष्ठ । प्रातः स्वचक्रेण नारायणो भवच्छत्रुसैन्यं व्यापादयिष्यति । अथ 12 तया गत्वा सर्व सगर्वया राजे निवेदितम । तेनाप्य अतितोषात प्रतीहारम आदिश्य नगरे पटहो दापितः । यथा। प्रातः संग्रामे निहतविक्रमसेनावासस्थितधनधान्यहिरण्यहस्तितुरङ्गायुधादिकं यो 15 . यद् गृह्णाति । तत् तस्यैव । इति । पटहघोषणां श्रुत्वा तुष्टाः
पौरजनाः परस्परं मन्त्रयमाणा ऊचुः । यथा । अतिमहासत्तो ऽयम् अस्मत्स्वामी । यो रिपुबले ऽधिष्ठिते ऽपि न शुभितः । 18 अवश्यं प्रातर् व्यापादयिष्यति प्रतिपक्षम। . ___इतश च कौलिको मुक्तसुरतारम्भो ऽन्याकुलः स्वमनसा पर्यालोचितवान । किम् अधुना मया विधेयम् । यदि तावद् 1 यन्त्रम् आरुह्यान्यत्र गच्छामि । तदानेन स्त्रीरत्नेन सह भूयः समागमो न भवति । विक्रमसेन एव व्यापाद्यास्म शुरकम् अन्तःपुरमध्याद् एनां गृह्णाति । अथ युद्धम् अङ्गीकरोमि । तदा संहता- 94
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org