SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 53 OR, THE LION AND THE BULL. Book I. Tale viil: Weaver as Vishnu. -Rememes हृदयस्था मनोरथाः । अधुना *जामातृप्रभावेण सकलाभ अपि वसुमतों वशे करियामि। अबान्तरे नवनवतिग्रामलक्षाणाम अधिपतेर् दाक्षिणात्यस्य । श्रीविक्रमसेनस्य दूताः प्रतिवर्षदीयमानकरहेतोः संप्राप्ताः । तेषां नारायण जामातृगर्वाद यथापूर्वम आदरं नासौ भूपतिः कृतवान् । ततस तैर् जातमन्युभिर् अभिहितम्। भो राजन । दातव्यदिनान्य छ अतिक्रान्तानि । तत् किं भवता यथादीयमानकरो न प्रहृतः । अथ सांप्रतं भवतो ऽलौकिकं किंचिद् अकस्मात कस्माद् अपि सकाशाद बलं संपन्नम । येनाग्निमारुताशीविषकतान्तोपमं श्रीवि- 9 क्रमसेनं कोपयसि । एवम् उक्ते तेषां राज्ञा देवमार्गो दर्शितः। तैश च स्वविषयम अनुप्राप्तैः शतसहस्रगुणं तत् कथयित्वा कोपितः स्वस्वामी। अथासौ सबलपरिवारश चतुरङ्गसेनासनाथस तदुपरि 12 प्रचलितः । सक्रोधम् उक्तवांश च । यदि विशति तोयराशिं । रोहति वा शक्ररक्षितं मेरुम। स तथापि नृपः पापो । हन्तव्यो मे प्रतिज्ञेषा ॥२१५॥ ar 15 ततो ऽनवरतप्रयाणकर् विक्रमसेनस् तद्देशन अनुप्राप्य विध्वंसयाम आस । अथ हत शेषा जनपदाः पुण्द वर्धनराज्ञो हारदेशम आस्थायाक्रोष्टुम् आरब्धाः । तच् छ्वापि न तस्य स्वल्पो ऽपि 18 क्षोभः समभवत्। तथान्येधुर् विक्रमसेनबलैर् आगत्योपरुद्धे पुण्दवर्धनपुरे स राजा मन्त्रिपुरोहितमहाजनैर् विज्ञप्तः । देव । समर्थेन शत्रुणा 21 समागत्य पुररोधः कृतः । देवश च कथं निराकुलस् तिष्ठति । इति । ततो राजाब्रवीत् । तिष्ठत यूयं यथासुखम् । चिन्तितो ऽस्ति मयास्य रिपोर् वधोपायः । यद् एतदीयबलस्याहं करिष्यामि । 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy