________________
Book I. THE ESTRANGING OF FRIENDS3B
52
Tale viii: Weaver as Vishnu.
तथा।
यास्यति सज्जनहस्तं । रमयिष्यति तं भवेच् च निर्दोषा।
उत्पादितयापि कविस । ताम्यति कथया दुहित्रेव ॥२१४॥ ar 3 एवं बहुविधं विचिन्य देवीपार्श्वे गत्वा प्रोवाच । देवि । विज्ञायतां सम्यक् । यद एते कञ्चुकिनी वदन्ति । कस्याद्य कुपितः कृतान्तः । येनैतद्रोहः कृतः । इति । अथ तैर् यथास्थिते कथिते देवी व्याकु- 6 लितमनाः सत्वरं कन्यान्तःपुरे गत्वा खण्डिताधरां नखविलिखितशरीरावयवां दुहितरम अपश्यत् । प्रोवाच *च । आः पापे । कुलकलङ्ककारिणि । किम् एवं शीलखण्डनं कृतम् । को ऽयं . कृतान्तावलोकितस त्वत्सकाशम अभ्येति । तत् कथ्यताम एवं गते ऽपि सत्यम् । इति । सापि वपाधोमुखी जगाद सकलं *विष्णुरूपकौलि कवृत्तान्तम् । इति ।
12 तच छूत्वा सा प्रहसितवदना । *पुलकितसर्वाङ्गी सत्वरं गवा राजानम ऊचे। देव । दिष्ट्या वर्धसे । निशीथे नित्यम एव भगवान नारायणः कन्यकापार्श्व स्वयं समभ्येति । तेन गान्धर्वविवाहेन 15 परिणीता सा । तद् अद्य रात्रौ मया त्वया च वातायनगताभ्यां . स निशीथे द्रष्टव्यः । यतो भानुषैः सह वचनालापं न करोति । इति श्रुत्वा राजा प्रहृष्टहृदयस् तद् दिनं वर्षशतम् इव कथंचिद् 18 अतिचक्राम । ततम् तु रात्रौ निभृतो भूत्वा राजा सकलको वातायनस्थो गगननिवेशितदृष्टिर् यावत् तिष्ठति । तावद् गरुडारूढं शङ्खचक्रगदाहस्तं यथोचितचिहम आकाशाद् अवतरन्तम 1 अपश्यत् । ततः सुधाप्लावितम इवात्मानं मन्यमानो देवीम उवाच। नास्त्य् अन्यो *धन्यतरो लोके मया त्वया च समः। ययोः प्रसूतिं भगवान नारायणः स्वयम एत्य भजते । तत् सिद्धा अस्माकं सर्वे ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org