________________
48
Book I. THE ESTRANGING OF FRIENDS%3
Tale viii: Weaver as Vishnu.
हन्तव्यपक्षे निर्दिष्टा । यदि नाम विधेर् वयम् । किम् उपाया न सन्य अन्ये । दर्शिता यन मृगेक्षणा ॥२०४॥ दूरस्थाम अपि येन पश्यसि मनः कान्तां पुरःस्थायिनी तं योगं मम चक्षुषो ऽप्य् उपदिश श्रान्तं यदि प्रेक्षणे । संतापाय च संगमो ऽपि नितराम एकाकिनस् ते ध्रुवं न ह्य् आत्मभरयो भवन्ति सुखिनो भद्रं परार्थैषिणाम्॥२०५॥ iar o एकं नाम जडात्मकस्य मुषितं लावण्यम् इन्दोस तया नेत्राभ्याम असितोत्पलस्य च रुचिः प्रायेण तन नो मषा। नो जानाति हृताम् असौ पदगतिं मतो वराकः करी " तन्वया विदतोऽपियन मम हृतं चेतस तद् अत्यद्भुतम्॥२०६॥ sir दिक्षु भूमौ तथाकाशे । सर्वत्र च विभाव्यते । स्मयते प्राणसंदेहे । तन्वी नारायणायते ॥२०७॥ क्षणिकाः सर्वसंस्कारा । बुझेनोक्तं मृषा वचः। चिन्तयन्तो यतः कान्तां । नित्यम् अक्षणिका वयम् ॥२०॥ एवं तस्य विलपतो बहुप्रकारम उद्भ्रान्तचित्तस्य कथम् अपि 15 निशा जगाम । अन्येधुश् च तथैवोचितवेलायां रथकारः कृतङ्गारः कौलिकभवनम अगमत् । पश्यति च कौलिकम अनास्तृतखदायां प्रसारितबाहुपादं दीर्घोष्णनिःश्वासम आपाण्डुगल्लम् 18 उगताश्रुजलम् । तं च तद्रूपं दृष्ट्वाब्रवीत् । *अयि सखे । किम एवंविधाद्य ते शरीरावस्था । अथासौ पुनः पुनः पृच्छ्यमानो ऽपि ब्रीडया यावन न किंचित् कथयति । तावद् रथकारः 21 खेदपरवशः श्लोकम् अपठत् ।
नैतन मित्रं यस्य कोपाद् बिभेति यद् वा मिचं शङ्कितेनोपचर्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org