________________
46
Book I. THE ESTRANGING OF FRIENDS:
Tale viii: Weaver as Vishnu.
॥ कथा ॥ अस्ति गौडेषु जनपदेषु पुण्दवर्धनं नाम नगरम । तब कौलिको रथकारश च द्वौ सुहृदौ स्वस्वशिल्पे परं *पारम् आगतौ स्वकर्म- ३ बलोपार्जितवितत्वाद् अगणितव्ययक्रियौ मृदुविचित्रबहुमूल्यनिवसनौ पुष्पताबूलालंकृतौ कर्पूरागरुमृगनाभिपरिमलसुगन्धी प्रतिवसतः । तौ च प्रहरत्रयं कर्म कृत्वा पाश्चात्यप्रहरे दिवसस्य । *शरीरशुश्रूषां च प्रत्यहं चत्वरायतनादिस्थानेषु मिलितौ विचरतः। प्रेक्षणकगोष्ठीवर्धापनकोत्सवादिलोकमेलकेषु पर्यटनं कृत्वा संध्यायां स्वगृहे गछत्तः । एवं च तयोः कालो ऽतिवर्तते । अथ कदाचित् कस्मिंश्चित् संजातमहोत्सवे सर्व एव पौरजनो यथाविभवभृतालंकारो देवतायतनादिषु स्थानेषु परिभ्रमितुं प्रवृत्तः । ताव् अपि कौलिकरथकारौ कृतालंकारौ स्थानस्थानकेषु मिलित- 12 गारजनमुखान्य अवलोकयन्तौ महति धवलगृहवातायने समुपविष्टां प्रथमयौवनोद्भिन्नकर्कशस्तनयुगलतिलकितहृदयदेशाम उपचीयमाननितम्बबिम्बां धामीभवन्मध्यां सजलजलदनीलमृस्नि- 15 ग्धतरङ्गिन्तशिरसिजां स्मरविलासंदोलासंवादिश्रवणनिवेशिततरलकनकपत्रां नवविकसितकोमलकमलकान्तमुखीं निद्राम् इव सकललोकलोचनग्राहिणी सखीजनपरिवृतां राजदुहितरं दृष्ट- 18 . वन्तौ। ___तां चाप्रतिरूपरूपां निरूपयन कौलिकः पञ्चभिर् बाणैर् मनसि मनसिजेन *समन्तात् ताडितः कथं कथम अपि धैर्यावष्ट- 21 म्भाद् आकारसंवरणं कृत्वा गृहं संप्राप्तः सर्वा दिशो राजदुहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org