SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 45 OR, THE LION AND THE BULL. Book I. Tale vii: Lion and hare. Frame-story. स्वामिन । कस ते प्रतापं सोढुं समर्थः । येन त्वां दष्ट्रा दूरतो ऽपि चौरो ऽयं तद् दुर्गम अनुप्रविष्टः । तद् आगच्छ । येन दर्शयामि । इति । तच छुत्वा मन्दमतिर् आह । भद्र । सत्वरं दर्शय । सो ३ ऽपि तस्य तं कूपम अदर्शयत् । स च सिंहो ऽतिमूर्खतयात्मनः प्रतिबिम्वं जलमध्यगतं दृष्ट्वा सिंहनादं मुमोच। ततस तत्प्रतिशब्देन ट्विगुणतरो नादः कूपात् समुत्थितः । अथासौ तं नादम आकर्ण्य । 6 शक्ततरो ऽयम् । इति मत्वात्मानं तस्योपरि क्षिप्वा प्राणान मुमोच । शशको ऽपि हृष्टमनाः सर्वान् मृगान आनन्द्य तैः प्रशस्यमानो यथासुखं तत्र वने वसति स्म ॥ अतो ऽहं ब्रवीमि । यस्य बुद्धिर् बलं तस्य । इति । करटक आह । काकतालीयम् इदम् । यद्य अपि शशकस्य सिद्धिः संजाता । तद् अपि शक्तिहीनेन पुरुषेण महता सह च्छद्मना न व्यवहर्तव्यम् । दमनक आह । शक्तिमताशक्तिमता चोद्यमे निश्चयः कर्तव्यः । उक्तं च। 12 नित्योद्यतस्य पुरुषस्य भवेद् धि लक्ष्मीर देवं हि देवम इति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषम् आत्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥१५॥ अपरं च । सदोद्यतानां देवा अपि सहायिनो भवन्ति । उक्तं च। कृते विनिश्चये पुंसां। देवा यान्ति सहायताम्। विष्णश चक्र गरुत्मांश च । कौलिकस्य यथाहवे ॥१९६॥ अन्यच च। सुप्रयुक्तस्य दम्भस्य । ब्रह्माप्य अन्तं न गच्छति । कौलिको विष्णुरूपेण । राजकन्यां निषेवते ॥१९७॥ करटक आह । कथम् एतत् । दम्भेनापि निश्चयपूर्व सुप्रयुक्तेन कार्यसिद्धिः । इति । सो ब्रवीत्। vasa Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy