________________
43
OR, THE LION AND THE BULL. Book I.
Tale vii: Lion and hare. दंष्ट्रागतो न भवसि । शशक आह । स्वामिन । अद्य समस्तमृगैर जातिक्रमेण प्रस्तावं विज्ञाय लघुतरस्य मम । ततः पञ्चशशकः सहाहं प्रेषितः । ततश् चान्तराले महतः क्षितिविवरान निर्गत्यकेन । सिंहनाभिहितः। क्व प्रस्थिता यूयम् । अभीष्टदेवतां *स्मरत । ततो मयाभिहितम् । वयं स्वामिनो मन्दमतेः सिंहस्य भोजनार्थ समयधर्मेण गच्छामः । ततस तेनाभिहितम् । यद्य् एवम् । तन मदीयम एतद् वनम् । ततो मया सह समयधर्मेण समस्तैर् अपि मृगैर् वर्तितव्यम् । स चौररूपी मन्दमतिः। ततस् तम् आय द्रुतम् आगच्छ । येन यः कश्चिद् आवयोर् मध्यात पराक्रमेण " राजा भविष्यति । स सर्वान एवेतान मृगान भक्षयिष्यति । ततो ऽहं तेनादिष्टः स्वामिसकाशम् अभ्यागतः । एतन मम वेलातिक्रमकारणम् । तद् अत्र स्वामी प्रमाणम् । इति । तच छूत्वा 12 मन्दमतिः प्राह । भद्र । यद्य एवम । तर्हि सत्वरं दर्शय मम तं चौरसिंहम । *येनेतं मृगकोपं तस्योपरि क्षिप्ता स्वस्थो भवामि । उक्तं च ।
15 भूमिर् मित्रं हिरण्यं वा । वियहस्य फलत्रयम्। नास्त्य् एकम् अपि यद्य् एषां तन न कुर्यात् कथंचन ॥१५॥ यत्र न स्यात् फलं भूरि । यत्र च स्यात् पराभवः।
न तत्र मतिमान युद्धं । समुत्पाद्य समाचरेत् ॥१६॥ शशक आह । स्वामिन । सत्यम् इदम् । स्वभूमिहेतोः परिभवाद् युध्यन्ते क्षत्रियाः। स परं दुर्गाश्रयः । ततो दुर्गान निष्क्रम्य तेन वयं 21 विष्कम्भिताः । तद् दुर्गस्थो दुःखसाध्यो रिपुर् भवति । उक्तं च ।
न गजानां सहस्रेण । न च लक्षण वाजिनाम् । तत् कृत्यं साध्यते राज्ञां । दुर्गेणेकेन यद् भवेत् ॥१७॥ ५
18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org